________________
[२३५
गुणानुमोदनाद्वारेऽभयकुमारकथा]
प्रातश्च श्रीमती पत्नीं स संभाष्यानुमान्य च । यतिलिङ्गमुपादाय निर्ममो निर्ययौ गृहात् ॥१०५॥ सोऽभि राजगृहं गच्छन्नन्तराले ददर्श तत् । चौर्यवृत्तिपरं स्वस्य सामन्तशतपञ्चकम् ॥१०६।। उपलक्ष्य स तैर्भक्त्या ववन्दे सोऽवदच्च तान् । किमेषा जीविका पापहेतुर्युष्माभिराहता? ||१०७|| तेऽवोचन् वञ्चयित्वाऽस्मान् पलायिष्टा यदा प्रभो ! । न तदा दर्शयामः स्मात्मानं भूमिभुजो हिया ॥१०८॥ तवैवान्वेषणो लग्ना भ्रमन्तः सागराम्बराम् । चौर्यवृत्त्यैव जीवामः किमन्यद् निःस्वशस्त्रिणाम् ? ॥१०९॥ "मुनिरप्यभ्यधाद् भद्राः ! कष्टमापतितं यदि । धर्मानुबन्धि तत्कार्यं सफलं लोकयोर्द्वयोः ॥११०॥ केनापि पुण्ययोगेन मानुष्यकमवाप्यते । प्राप्तस्य तस्य च फलं धर्मः स्वर्गापवर्गदः ॥१११॥ दया जीवेषु सत्योक्तिरस्तेयं ब्रह्मचारिता । आकिञ्चन्यं च धर्मोऽयमाहतोऽभिमतोऽस्तु वः ॥११२॥ स्वामिभक्ताः स्थ हे भद्राः ! राजेव स्वाम्यहं च वः । तन्ममैवैनमध्वां प्रपद्यध्वं समाहिताः ॥११३।। तेऽप्यूचुस्त्वं पुरः स्वामी साम्प्रतं गुरुरप्यसि । त्वया ज्ञापितधर्माः स्मो दीक्षयाऽनुगृहाण नः" ॥११४॥ इत्याईककुमारस्तान् प्रव्राज्य सहितश्च तैः । वन्दितुं श्रीमहावीरमथ राजगृहं ययौ ॥११५।। तद्बाह्योपवने हस्तितापसाः सन्ति भूरिशः । ते हस्तिमांसमशनन्तो दिवसानत्यवाहयन् ॥११६॥