SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ [२२३ गुणानुमोदनाद्वारेऽभयकुमारकथा] आपूपिकाय दातव्या कथं कन्या मनोरमा । इति चिन्ता महीभर्तुर्जागर्ति स्म पदे पदे ॥१६२॥ ज्ञात्वा भूभर्तुराकूतमभयेन भयङ्करैः । वचोभिस्ताडितस्तथ्यं कथयामास पौपिकः ॥१६३।। अभ्यधादभयः सत्यं स एवास्पदमीदृशाम् । कल्पदूणां सुवर्णाद्रौ दृश्यते संभवः परम् ॥१६४॥ परिणिन्ये ततः कन्यां सुपुण्यः कृतपुण्यकः । प्राज्यं राज्यं च तल्लेभे 'भाग्यैः किं नाम दुर्घटम् ?' ॥१६५।। सुमनःशालिनस्तस्य सुरभेः सुरसैर्गुणैः । सहाभयकुमारस्य प्रीतिरासीत् कलावतः ॥१६६।। सोऽभ्यधादभयं जातु सखे ! पत्नीचतुष्टयम् । ममास्तिपुत्रमत्रास्ति परं वेद्मि न मन्दिरम् ॥१६७।। अभयः प्राह चित्रं भोः ! गृहिणीर्वेत्सि नो गृहम् । ततः सर्वोऽपि वृत्तान्तस्तेन पूर्वो निवेदितः ।।१६८।। प्रासादं कारयामास द्विद्वारमभयस्ततः । द्वारमेकं प्रवेशाय निर्गमाय तथाऽपरम् ॥१६९॥ यक्षस्य लेप्यप्रतिमा कृतपुण्यसमाकृतिः । तदन्तः स्थापिता को हि प्रज्ञापारङ्गमः सताम् ? ॥१७०॥ यो यक्षस्य नमस्यायै न मनुष्यो यतिष्यते । सकुटुम्बस्य तस्याधि सव्याधि स निधास्यति ॥१७१।। इत्युक्तिमभयोपज्ञां परिज्ञाय- पुरीजनः । तमुपास्ते समस्तोऽपि निष्पर्यायसपर्यया ॥१७२।। द्वारेणायान्तामेकेन निर्यान्तमपरेण च । कृतपुण्याभयौ दक्षौ जनं वीक्षाम्बभूवतुः ॥१७३॥ 15 १. विभक्त्यन्तप्रतिरूपकाव्ययत्वेन अस्ति=विद्यन्ते पुत्रा यस्य पत्नीचतुष्टयस्येत्यस्तिपुत्रमिति
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy