SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ २१२] [विवेकमञ्जरी यद्ययं मे पतिर्न स्यात् तदानी हृदयं सखि ! । 'द्विधा भविष्यति नूनं दाडिमं व पचेलिमम् ॥३०॥ तद्भद्रे ! क इहोपाय उपायो यदि वाऽस्त्ययम् । शरणं वणिगेवैष य एतद्रूपमर्चति ॥३१॥ सुज्येष्ठादास्यथावादीदभयं सोऽपि तां जगौ । अचिरात् पूरयिष्यामि स्वामिन्यास्ते मनोरथम् ॥३२॥ सुरङ्गां खानयिष्यामि तमानेष्ये यथा स्यात् । अधिष्ठेयश्च तत्कालं त्वत्सामिन्यापि तद्रथः ॥३३।। स्थानेऽमुष्मिन् दिनेऽमुष्मिन् क्षणेऽमुष्मिन् सुरङ्गया । राजैष्यतीति संकेतं तन्मुखेनाभयो ददौ ॥३४॥ दासी तस्य तदाख्यायागत्य चाभयमब्रवीत् । प्रमाणं त्वद्वच इति पुनश्चान्तःपुरं ययौ ॥३५॥ अभयोऽपि हि सङ्केतकथाख्यापनपूर्वकम् । पितृप्रयोजनप्रह्न आह्नत् पितरमाश्वपि ॥३६।। सुज्येष्ठा तत्प्रभृत्येव स्मरन्ती श्रेणिकं नृपम् । प्रभूतां प्रापदरति रतिनाथवशंवदा ॥३७॥ अन्यदा त्वह्नि निर्णाते श्रेणिकः सुलसासुतैः । सब्रह्मचारिभिर्दिव्यानुभावादेकनालजैः ॥३८॥ प्रसेनजित्सुहन्नागरथिकस्य सुतैः श्रुतैः । द्वात्रिंशता समं प्राप सुरङ्गात्मा सुरङ्गया ॥३९॥ युग्मम् ॥ सुरङ्गार्निगतं प्रेक्ष्य सुज्येष्ठा मगधेश्वरम् । चित्रदृष्टानुसारेणोपलक्ष्य मुमुदेतराम् ॥४०॥ साख्याय सर्ववृत्तान्तमापप्रच्छाथ चिल्लणाम् । प्रत्यज्ञासीच्चिल्लणापि स्थास्यामि त्वदृते न हि ॥४१॥ 15 . १. ग. ध. पचेलिममिवैर्वारु द्विधा नूनं भविष्यति ।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy