________________
[२०३
गुणानुमोदनाद्वारे कूरगड्डुकमुनिकथा]
"परिष्ठापयितुं खेलमल्लकान् व्यस्मरं हहा ! । निष्ठेवितुं न कल्पेतां वासिते खेलमल्लके ॥५७।। मया प्रमद्वरेणैषामन्यभक्तिरपि क्षता । यददातुः प्रियालापोऽन्यत्र लाभान्तरायिकम् ॥५८॥ अशनव्यसनं धिग्मां पशुवद् ग्रासलालसम् । क्षुत्परीषहसोढारस्त्वमी धन्यास्तपोधनाः ॥५९॥ सिच्यमानो रसैरात्मा सार्द्रतुम्बमिव ब्रुडेत । तेनैते शोषयन्ति स्वं तितारयिषवो भवात् ॥६०॥ क्षान्त्या तितउनेवैवं चालयन् प्राक्तनं रजः । स लेभे केवलं रत्नं लोकालोकप्रकाशकम्" ॥६१।। तदा शासनदेव्यागाद् नमश्चक्रे च तं मुनिम् । क्षपकास्तद् विलोक्यैतामभाषन्तोन्मिषत्क्रुधः ॥६२॥ हित्वा तपोधनानस्मानद्य त्वं कटपूतने ! । अमुं कथमवन्दिष्ठा रे क्रूरे ! कूरगड्डुकम् ? ॥६३॥ सोचे पवित्रमस्याभूज्ज्ञानमप्रतिपातिकम् । अवन्दिषमहं तेन वन्दध्वं यूयमप्यमुम् ॥६४॥ ततस्ते विस्मयानन्दविषादभरभाविताः । तस्य केवलिनः पादाम्बुजेऽभूवन्मधुव्रताः ॥६५॥ तेषामपि तदात्मानं निन्दतामभिगर्हताम् ।। विलिल्यिरे विकर्माणि प्रादुरासीच्च केवलम् ॥६६॥ देवा दुन्दुभिनादपूर्वमवनीं गन्धोदकोपस्कृतां कुर्वन्तः समुपेत्य केवलमहं कृत्वा च जग्मुर्दिवम् । कालात् केवलिनः प्रपञ्चितरुचो धर्मस्य पञ्चापि ते साम्राज्याय शुभग्रहा इव जगत्युच्चैः स्थिता जज्ञिरे ॥६७॥४७||
॥ इति कूरगड्डुकमुनिकथा ॥