________________
१९४]
[विवेकमञ्जरी
लम्बितैकभुजं जन्तूनुद्धर्तुमिव दुर्गतेः । उदञ्चितैकपाणिं चोत्क्षेप्तुं तानेव सद्गतौ ॥१८॥ दिवाकरेऽपि मुकर इव न्यस्तविलोचनम् । तन्मण्डलभिदा मार्ग मार्गन्तमिव मुक्तये ॥१९॥ - धर्माम्भोबिन्दुभिश्छन्नं स्वर्णाचलमिवोडुभिः। सद्ध्यानमुद्रया कान्तं शान्तं ददृशतुर्मुनिम् ॥२०॥ कलापकम् ।। तयोरेकतमोऽवादीदहो ! मुनिमतङ्गजः । वन्दनीयो महात्मायं य एवं तप्यते तपः ॥२१॥ एकपादेन कस्तिष्ठेत् कः पश्येच्च खरत्विषम् । एवं मुहूर्तमप्येकमहो ! दुष्करकारिता ॥२२॥ स्वर्गो वाप्यपवर्गो वा नास्य दूरे महात्मनः । तपोभिर्दुस्तपैः किं किं नासाध्यमपि साध्यते ? ॥२३॥ द्वितीयोऽपि जगादैवं वयस्य ! न हि वेत्सि किम् ? । राजा प्रसन्नचन्द्रोऽयं न धर्मऽस्य मुधा तपः ॥२४॥ चक्रेऽसौ हि सुतं बालं राज्ये तस्मात् स मन्त्रिभिः । प्रच्यावयिष्यते दुग्धात् तत्पिधानमिवौतुभिः ॥२५॥ तस्मिन्नुच्छेदिते बाले वंशो नास्त्यस्य सर्वथा । स्वपूर्वजन्मिनां नामनाशनादेष पातकी ॥२६॥ दुर्लभाः सुतपोभ्योऽपि लब्धा ह्येतेन याः स्त्रियाः । ता वियुज्य प्रव्रजितस्यास्य किं न तपो वृथा ? ॥२७|| समाधिपादपे तद्वाग्वात्ययोन्मूलिते तदा। विच्छायश्चिन्तयामास राजर्षिरिति चेतसि ॥२८॥ "अहो ! तेषां मयाऽकारि सन्मानो यः कुमन्त्रिणाम् । स भस्मनि हुतं नूनमूषरे च प्रवर्षितम् ॥२९॥