SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १९२] [विवेकमञ्जरी अथ प्रसन्नचन्द्रमुनिचन्द्रचरित्रं चित्रीयमाण आह - तह सत्तमीए बद्धं कम्ममसेसं पि जेण तह खवियं । कह न कुणइ अच्छरिअं पसन्नचंदस्य सच्चरियं ? ॥४६॥ [तथा सप्तम्यां बद्धं कर्माशेषमपि येन तथा क्षपितम् । 5 कथं न करोत्याश्चर्यं प्रसन्नचन्द्रस्य सच्चरितम् ? ॥] व्याख्या – तथा तेन दुर्मुखवचनश्रवणोपजातरौद्रध्यानावेशवशमनोवृत्तिसमृद्धेन कवेरनुभवैकसाध्येन वा निखिलजनप्रसिद्धिसारेण प्रकारेण सप्तम्यां नरकभुवि बद्धं दृढीकृतं कर्म अशेषमपि, तथा तेन शिरस्कस्वीकारप्रगुणीकृतकरस्पृष्ट लुञ्चितशिरःस्मृतात्मानुशयनिवर्तमानकषायपरिणामातिशयजागरूकवैराग्यपर10 भागतारेण प्रकारेण येन क्षपितमुन्मूलितं, कैश्चिच्चिरकालबद्धमचिरेण, कैश्चिच्चाचिरकालबद्धं चिरेण कर्म क्षपितम्, अनेन तु महात्मना तत्कालं बद्धं क्षपितं चेतिरूपं सच्चरितं प्रसन्नचन्द्रस्य राजर्षेः कथमाश्चर्यं न करोति ? अपि तु करोतीति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - .. $$ इहास्ति पोतनपुरं पुरं तत्र महीपतिः । प्रसन्नचन्द्र इत्यासीत् प्रसन्नश्चन्द्रवद् गुणैः ॥१॥ तत्रैकदा पुरग्रामाकरद्रोणमुखादिषु । विहरन्नाजगाम श्रीवीरो देवासुरैर्वृतः ॥२॥ नगराद् बहिरीशान्यां दिशि देवा वितेनिरे । देशनासदनं स्वामी तदन्तर्निषसाद च ॥३॥ श्रुत्वा स्वामिनमायातं पोतनाधिपतिर्नृपः । प्रणान्तुमाययौ पौरसामन्तामात्यसंयुतः ॥४॥ प्रणम्योचितभूपीठप्रतिष्ठेषु नृपादिषु । स्वामी चकार वैराग्यदेशिनी देशनामिति ॥५॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy