SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ 5 15 १८६] अथ दशार्णभद्रश्लाघामुल्लाघयन्नाह - - 20 वंदे दसन्नभद्दं समसीसीए अहो सुरिंदस्स । घित्तूण तहा विरइं जेण पइन्ना सुनिव्वूढा ॥४५॥ [वन्दे दशार्णभद्रं स्पर्धया अहो ! सुरेन्द्रस्य । गृहीत्वा तथा विरतिं येन प्रतिज्ञा सुनिर्व्यूढा || ] व्याख्या 'दसन्नभद्दं' दशार्णभद्रनामानं मुनिं 'वंदे' नमस्करोमि, 'जेण' येन 'पइन्ना' प्रतिज्ञा 'तथा श्रीवीरस्वामिनं वन्दिष्ये, यथासौ न केनापि वन्दितः' इति सन्धा, 'सुनिव्वूढा' सुष्ठु अतिशयेन निर्व्यूढा निर्वाहमनीयत । कया ? 'समसीसीए' समशीर्षिकया स्पर्धया । 'अहो' इति विस्मये कस्य ? 'सुरिंदस्स' सुरेन्द्रस्य 10 शक्रस्य । किं कृत्वा ? 'घित्तूण' गृहीत्वा । काम् ? 'विरइं' विरतिं प्रव्रज्याम् । कथम् ? 'तहा' तथा तेन प्रकारेण सेन्द्रैरपि सुरैरसाध्येनेत्यर्थः । अविरता हि देवा देशविरतिमप्याप्तुमनलम्भूष्णवः, क्व पुनः सर्वविरतिमिति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चेतत् - — [ विवेकमञ्जरी $$ दशार्णदेशभूसुभ्रूकिरीटप्रतिमं पुरम् । दशार्णपुरमित्यस्ति नैकरत्नविराजितम् ॥१॥ दशार्णभद्र इत्यासीत् तत्रासीमयशा नृपः । सम्पदामेकवरिता सरितामिव सागरः ||२|| एकदा तं सभासीनं सायमित्यूचिरे चराः । देव ! देवाधिदेवः श्रीवीरः प्रातरिहैष्यति ॥३॥ पयोदगर्जयेवाभूत् तद्गिरा भूविभू रयात् । धाराकदम्बवत्फुल्लपुलकाङ्कुरदन्तुरः ॥४॥ सभासमक्षमूचे च प्रगे ऋद्धया तया प्रभुम् । वन्दिष्ये न यया कश्चिद् ववन्दे त्रिजगत्यपि ॥५॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy