SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ [१७५ गुणानुमोदनाद्वारे सुदर्शनकथा] दृष्ट्वा ताः सुभगः शीघ्रं नमस्कारपरायणः । दत्तझम्पो नदीपूरे विद्धः कीलेन केनचित् ॥२०॥ तथैवावर्तयन् पञ्चपरमेष्ठिं विपद्य सः । श्रेष्ठिपत्न्यास्ततः कुक्षौ तत्प्रभावादवातरत् ॥२१॥ तस्मिन् गर्भगते श्रेष्ठी देवसङ्घार्चनादिकान् । . पत्न्या ऋषभदासोऽथ पूरयामास दोहदान् ॥२२॥ सार्हद्दासी ततः पुत्रमसूत शुभलक्षणम् । पुत्रजन्मोत्सवं श्रेष्ठी यथावैभवमातनोत् ॥२३॥ पितृभ्यां सोत्सवं क्लृप्तनामा सैष सुदर्शनः । वर्धमानः क्रमेणेन्दुरिवाप सकलाः कलाः ॥२४॥ कन्यां मनोरमां नाम्ना मनोरमकुलोद्भवाम् । रतिं स्मरमिव श्रेष्ठी तमथो पर्यणाययत् ॥२५॥ पित्रोन केवलं नेत्रे कुमुदानन्दमिन्दुवत् । चक्रे राज्ञोऽपि लोकस्य सर्वस्यापि सुदर्शनः ॥२६॥ इतो नगर्यां तत्राभूद् दधिवाहनभूपतेः । पुरोधाः कपिलः सोऽधात् सौहृदं श्रेष्ठिसूनुना ॥२७॥ अर्जुनस्य विधुः पञ्चशरस्य च विधुर्यथा । सुदर्शनस्य स प्राय: परिपार्श्वमवर्तत ॥२८॥ कपिलं कपिलानामा भार्याऽपृच्छत् तमन्यदा । विस्मरन् नित्यकृत्यानि क्वेयत्कालं विलम्बसे ? ॥२९॥ पार्श्वे सुदर्शनस्याहं तिष्ठामीति तदीरिते । कोऽसौ सुदर्शन इति तथोक्तः प्रत्युवाच सः ॥३०॥ मम मित्रं सतां धुर्यं विश्वैकप्रियदर्शनम् । सुदर्शनं न चेद् वेत्सि तत् त्वं वेत्सि न किञ्चन ॥३१॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy