SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ १७०] [विवेकमञ्जरी 10 देवतावसरायोर्वीपतेः स्वर्णयवान् कृतान् । विमुच्य स्वर्णकारोऽयं गृहान्तरविशत्तदा ॥८॥ भ्राम्यन्नभ्येत्य तत्क्रीडाक्रौञ्चः पक्षी कृमिभ्रमात् । जवादेव यवानेतानपक्ष्णमचूनयत् ॥९॥ यावत्सुवर्णकारोऽपि गृहमध्यादुपाययौ । नानुलोके यांस्तावद् दध्यौ चेति चमत्कृतः ॥१०॥ एतावन्मात्रकाले हा ! ययुः क्व नु यवा मम ? | देवाचार्यसमयश्चायं नान्यान् घटयितुं सहे ॥११॥ इहापराधे हा हन्त राजान्तक इव क्रुधा। मां विमुच्यापरं दण्डं नवखण्डं विधास्यति ॥१२॥ तदेनं सत्यवचनं मुनिं पृच्छामि तत्कथाम् । असौ तन्नाशसाक्षी यत् कर्मसाक्षीव भूचरः ॥१३।। ध्यात्वेति दीनवदनोऽभिसृत्य मुनिमब्रवीत् । यवाः केन गृहीता मे प्रसीद कथय प्रभो ! ॥१४॥ शृण्वन्नपि मुनिश्रेयानशृण्वन्निव तद्गिरम् । स क्रौञ्चकृपया भेजे मौनं सर्वार्थसाधनम् ॥१५॥ क्रियासमभिहारेण पृच्छ्यमानोऽपि नावदत् । यदा तदामुनाऽशङ्कि खल्वयं यवतस्करः ॥१६।। गृहान्तरा दुरात्मासौ ततः सौवर्णिको मुनिम् । नीत्वा रूक्षाक्षराक्षेपपूर्वं पप्रच्छ तत्कथाम् ॥१७|| यावत्तथापि नाशंसद् महात्मासौ कृपापरः । तावत् कुट्टयितुं तेन प्रारेभे यष्टिमुष्टिभिः ॥१८॥ घटी हरति तोयानि ताड्यते झल्लरी यथा । दीपालिकाऽत्ति पिबति सूर्पो वा कुट्यते यथा ॥१९॥ 15
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy