________________
[१६७
10
गुणानुमोदनाद्वारे वज्रस्वामिकथा]
अथादाय मुनीन् वज्रो वालिखिल्यानिवार्यमा । गिरिं प्रत्यचलल्लोकान्तरं द्योतयितुं जवात् ।।२८२।। तत्रैकः क्षुल्लको नास्थाद् वार्यमाणो यदा तता । क्वापि प्रतार्य तं ग्रामे समारोहद् गिरि गुरुः ॥२८३॥ क्षुल्लकश्चानुपदिकीभूयाऽऽगात् तगिरेरधः । . मा भूद् गुरुणामप्रीतिरिति तत्रैव चास्थित ॥२८४॥ मध्याह्नकूरसूरांशुतापाद् मक्षणपिण्डवत् । विलीय विमलात्माऽसौ तत्क्षणाद् दिवमीयिवान् ।।२८५॥ तदीयसत्त्वसंभारचमत्कारवशंवदाः । त्रिदशाः पूजयामासुराशु तस्य क्लेवरम् ॥२८६|| श्रीवजं यतयोऽप्यूचुः प्रेक्ष्यावतरतः सुरान् । किमत्रावतरन्त्येते देवाः सर्वर्द्धयः प्रभो ! ? ॥२८७।। सोऽप्यूचे क्षुल्लकः कार्यमिदानीं स्वमसाधयत् । महिमानं ततस्तस्य सुपर्वाणाः प्रकुर्वते ॥२८८॥ श्रुत्वैवं मुनयो दध्युः शिशुनाप्यमुना यदि । स्वकार्यं साधितं वृद्धाः साधयामो न किं वयम् ?।।२८९॥ इति संवेगिनः साधूंश्चारित्रज्ञानयोगिनः । श्रावकीभूय तत्रैवं मिथ्यादृग् देवताऽवदत् ॥२९०॥ पारणं भवतामद्य भगवन्तः ! प्रसीदत । गृह्णीत शर्कराक्षोदमोदकान् पानकं च नः ॥२९१।। अवग्रहोऽयं नैतस्याः प्रीतिहेतुस्ततोऽन्यतः । यामो ध्यात्वेति जग्मुस्ते तदासन्नं नगान्तरम् ॥२९२।। कृत्वा मनसि तत्रत्यदेवतां साधवो व्यधुः । कायोत्सर्गमथागत्य नत्वा तानित्युवाच सा ॥२९३।।
15