SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ [१६३ गुणानुमोदनाद्वारे वज्रस्वामिकथा] पृथस्थितिरधीयेथा यदेकामपि यामिनीम् । यो वसेत् सह वज्रेण तमनु म्रियते हि सः ॥२३४।। एवं करिष्येऽहमिति प्रतिपद्यार्यरक्षितः । तेषां निर्यामणां कृत्वा पुरीं वज्राश्रितां ययौ ॥२३५।। नगर्या बहिरेवास्थात् तां निशामार्यरक्षितः । निशाशेषे स्वप्नममुं वज्रस्वामी ददर्श च ॥२३६।। यदद्य पयसा पूर्णः केनाप्यस्मत्पतद्ग्रहः ।। अपाय्यागन्तुना भूरि किञ्चिदस्थाच्च तत्पयः ॥२३७।। वज्रस्वामी महर्षीणां स्वप्नार्थं व्याकरोत् प्रगे । बहुपूर्वश्रुतग्राही कोऽप्येष्यत्यतिथिर्मम ॥२३८।। प्रातरेत्य कृतोपास्ति स्वाम्युवाचार्यरक्षितम् । कुतः समागाः, सोऽप्याह गुरोस्तोसलिपुत्रतः ॥२३९।। वज्रस्वाम्यब्रवीदार्यरक्षितस्त्वं किमाख्यया ? । सोऽप्याख्यदेवमिति च पुनर्वन्दनपूर्वकम् ॥२४०॥ वज्रस्वाम्यपि तं ज्ञात्वा सप्रसादमदोऽवदत् । स्वागतं तव, कुत्र त्वं प्रतिश्रयमशिश्रयः ? ॥२४१॥ बहिरावासितोऽस्मीति तेनोक्ते स्वाम्यभाषत। महात्मन् ! किं न जानासि दूरस्थोऽध्येष्यसे कथम् ? ॥२४२॥ तेनोचेऽहं पृथग्वासी भद्रगुप्तगुरोगिरा । वज्रोऽप्याहोपयोगात् त्वां युक्तं पूज्या बभाषिरे ।।२४३।। वज्रोऽथ पृथगावासस्थितमप्यार्यरक्षितम् । अपूर्वप्रतिभं पूर्वाण्यध्यापयदमुं नव ।।२४४।। ततो दशमपूर्वम्य यमकानि गुरोगिरा । अध्येतुं विषमाण्यार्यरक्षितर्षिः प्रचक्रमे ॥२४५।।
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy