SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ [१४७ गुणानुमोदनाद्वारे वज्रस्वामिकथा] वजं दृष्ट्वा सुनन्दोद्यन्मोहा शय्यातरानथ । अरुचिष्टतरां ते तु गुरुस्वमिति नार्पयन् ॥४२॥ महता तूपरोधेन सा तेषामेव वेश्मनि । धात्रीव लालयामास स्तन्यपानादिना सुतम् ॥४३।। पाल्यमानोऽभवद् वज्रः क्रमेणाथ त्रिहायनः । साधवो धनगिर्याद्यास्ते च तत्राययुस्तदा ॥४४॥ प्राप्ते धनगिरावत्र ग्रहीष्यामि स्वमङ्गजम् । चितयन्ती सुनन्दैवमायातेऽस्मिन्नमोदत ॥४५।। सुनन्दाथ महर्षिभ्यः स्वनन्दनमयाचत । ते पुनर्पियामासुः प्रत्यभाषन्त चेदृशम् ॥४६॥ अयाचितस्त्वया सुज्ञे ! दत्तोऽस्मभ्यमयं शिशुः । विक्रीतेष्विव दत्तेषु स्वामित्वमपराध्यति ॥४७॥ पक्षयोरुभयोरेवमुच्चैर्विवदमानयोः । लोकोऽवादीदमुं वादं राजा निर्धारयिष्यति ॥४८॥ ततः सुनन्दा लोकेन सहिता नृपसंसदि । जगाम सङ्घसहिताः श्रमणा अपि ते ययुः ॥४९॥ राज्ञो न्यषीदद्वामेन सुनन्दा दक्षिणेन तु । श्रीमान् सङ्घः समस्तोऽपि यथास्थानमथापरे ॥५०॥ आत्तवज्रो जगौ श्रुत्वा द्वयोर्भाषोत्तरं नृपः । येनाहूतः समायाति बालस्तस्य भवत्वसौ ॥५१॥ कृपयानुमता साथ जनेन जननी शिशोः । विविधैः क्रीडनैर्भोज्यैश्चाटुभिश्च तमाह्वयत् ॥५२॥ न मातुरुपकाराणां कोऽपि स्यादनृणः पुमान् । एवं विदन्नपि सुधीर्वज्र एवमचिन्तयत् ॥५३॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy