________________
१४]
[प्रस्तावना
यावच्छेषाहिराजः क्षितिवलयमसौ स्फूर्तिमान् संबिभर्ति, श्रेयोऽधिष्ठानयानप्रवररविनिभः पुस्तकस्तावदास्ताम् ॥३७|| चक्षुर्लोचनविष्टपात्रिनयनप्रोद्भूतसंवत्सरे, मासे कार्तिकनाम्नि चन्द्रसहिते कृष्णाष्टमीवासरे । वृत्तिनिवृतिमार्गदीपकलिकातुल्या विनीतात्मना, रामेण स्वयमादरेण लिखिता नन्द्यादनिन्द्याक्षरा ॥३८॥
प्रशस्तिः समाप्ता । छ। छ । शुभमस्तु । छ । छ । छ । छ । छ । आ परत ताडपतरनी परत उपरथी उतारी छे । माहाराज नित्यविजयजीने वांचवा अर्थ लीखे छ । स्तंभतीर्थे । छ । व्यास सोमेश्वर शीवलाल । संवत् १९४४ मार्गशिर कृष्ण ११ भानुवासरे संपूर्ण समाप्तः ॥ श्रीरस्तु ॥ शुभं भवतु ॥ छ ।
खसंज्ञकं पण्डितहीरालालेन मुद्रितम् ।
गसंज्ञकं पत्तनीयभाण्डागारसंबन्धि, सटीकं, प्राचीनं, शुद्धम्, १२८ पत्रात्मकम्, जैनाचार्यश्रीविजयवीरसूरीश्वरद्वाराऽऽसादितम् ।
घसंज्ञकं प्रातःस्मरणीय-पन्न्यासश्रीमोहनविजयानां संबन्धि, सटीकं, प्राचीनं, शुद्धम्, गसंज्ञकपुस्तकानुकारि।
ङसंज्ञकं मूलमात्रम्, जैनाचार्यश्रीविजयवीरसूरीश्वराणां संबन्धि, प्राचीनं, शुद्धं, पत्रचतुष्टयात्मकम् ।
चसंज्ञकं मूलमात्रम्, जैनाचार्य श्रीविजयवीरसूरीश्वराणां संबन्धि, प्राचीनगूर्जरभाषानुवादसहितम्, १६ पत्रात्मकम् ।
एतेषां षण्णामादर्शपुस्तकानां साहाय्येन विहिते ग्रन्थस्यास्य संपादने साहजिकभ्रमवशाज्जाताः स्खलनाः क्षमितुं पाठकान् सानुनयं प्रार्थये ।
- हरगोविन्दः