SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ [११९ गुणानुमोदनाद्वारे चिलातीपुत्रकथा] तच्च संस्कार्य तत्रैव पुरे गत्वौर्वेदिहकम् । कृत्वा वैराग्यतो धीरपादान्ते व्रतमग्रहीत् ।।२८।। चैलातेयोऽपि संतापहरं छायातरं यथा । मुनिमेकं ददर्शाग्रे कायोत्सर्गस्थितं पथि ॥२९॥ स स्वेन कर्मणा तेन किञ्चिदुद्विग्नमानसः । तमुवाच समाख्याहि धर्मं संक्षेपतो मम ॥३०॥ अन्यथा सुंसुमाशीर्षच्छेदोत्कर्षवताऽसिना । शिरस्ते पातयिष्यामि फलं तालतरोरिव ॥३१॥ स ज्ञानाद् मुनिरज्ञासीद् बोधिबीजमिहाहितम् । सरजस्केऽपि सक्षेत्र इव स्फातिं गमिष्यति ॥३२॥ विधेह्युपशमं छेक ! विवेकमथ संवरम् । इत्युक्त्वा स मुनिकॊम्न्युत्पपाताकाशचारणः ॥३३॥ पदानि मन्त्रवत्तानि परावर्तयतस्ततः । जज्ञे चिलातीपुत्रस्य पदार्थोल्लेख ईदृशः ॥३४॥ "भवेदुपशमः क्रोधे क्षयमीयुषि तत्करेऽस्ति मे । तत्त्याज्यमङ्गनावक्त्रमिति तच्चापि सोऽमुचत् ॥३६॥ भवेच्च संवरः सर्वेन्द्रियाणामिह संवृत्तौ । सा तु योगनिरोधे स्यादित्युत्सर्गेण सोऽस्थित" ॥३७॥ ततोऽस्य विस्रगन्धास्रमिश्रे वपुषि कीटिकाः । रन्ध्राणि पापनिस्सारद्वाराणीव वितेनिरे ॥३८॥ सकीटिकः क्षीणविकर्मसेनाजयप्रशस्ति परितो दधानः । चारित्रभूपालपवित्रकीर्तिस्तम्भो यथाऽराजत सुप्रतिष्ठः ॥३९॥ दत्त्वा सुरङ्गा इव कीटिकाभिः कृष्टश्चिलातीतनयस्य जीवः । पुरान्तरायुर्विधृतोऽपि सार्धाहोरात्रयुग्मेन ययावथ द्याम् ॥४०॥३८॥३९॥ ॥ इति चिलातीपुत्रकथा ॥ 25
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy