________________
९८]
[विवेकमञ्जरी
योग्यान् मत्वा गुरुः साधून् यावत्तानन्वमन्यत । स्थूलभद्रः पुरोभूय नत्वैवं तावदब्रवीत् ।।७२।। कोशाभिधाया वेश्याया गृहे या चित्रशालिका। तत्राकृततपकर्मविशेषः षड्रसाशनः ॥७३॥ स्थास्यामि चतुरो मासानिति मेऽभिग्रहः प्रभो ! । ज्ञात्वोपयोगाद् योग्यं तं गुरुस्तत्रान्वमन्यत ॥७४।। साधवोऽथ ययुः सर्वे स्वं स्वं स्थानं प्रतिश्रुतम् । स्थूलभद्रोऽपि च प्राप कोशावेश्यानिकेतनम् ।।७५।। तमभ्युदस्थात् कोशापि विकोशाब्जमुखी ततः । ऊचे च स्वागतं स्वामिन् ! किङ्करी किं करोमि ते ? ॥७६।। चतुर्मासीवसत्यै मे चित्रशालेयमर्प्यताम् । इत्याह स्थूलभद्रस्तां सा तूचे गृह्यतामिति ॥७७॥ तया प्रगुणिते सद्यो वासवेश्मन्युवास सः । मुनिरूप इवोर्वाग्निस्तत्र कामरसार्णवे ॥७८॥ अथ सा षड्रसाहारभोजनस्यापि नाऽशकत् । मनः क्षोभयितुं तस्य विश्वचेतोहरापि हि ॥७९॥ मुनेस्तस्येन्द्रियजयप्रकर्षेण चमत्कृता । प्रपेदे श्रावकत्वं सा गृहीत्वैवमभिग्रहम् ॥८०।तुष्टः कदापि कस्मैचिद् ददाति यदि मां नृपः । । विना पुमांसमेकं तमन्यत्र नियमो मम ॥८१॥ नियूंढाभिग्रहांस्त्रींस्तान् प्रावृषोऽतिक्रमाद् यतीन् । स्वागतं दुष्करकरा इत्यूचे गुरुरागतान् ॥८२॥ अथायान्तं स्थूलभद्रमुत्थाय गुरुरब्रवीत् । दुष्करदुष्करकर ! स्वागतं ते महामुने ! ॥८३॥
20