SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ९६] [विवेकमञ्जरी ततश्च स महासत्त्वो गत्वोपनृपति ब्रुवन् । आलोचितमदं धर्मलाभः स्तादिति निर्ययौ ॥४८॥ किमेष कपटं कृत्वा यायाद् वेश्यागृहं पुनः । इत्यप्रत्ययतः क्षमापः सौधाग्रस्थस्तमैक्षत ॥४९॥ प्रदेशे शवदुर्गन्धेऽप्यकूणितविकूणिकम् । यान्तं दृष्ट्वा यतीन्द्रं तं नरेन्द्रोऽघूर्णयच्छिरः ।।५०।। भगवान् वीतरागोऽसावस्मिन् धिग्मे कुचिन्तितम् । इत्यात्मानं निनिन्दोच्चैर्नन्दस्तमभिनन्दयन् ॥५१॥ स्थूलभद्रोऽपि गत्वा श्रीसम्भूतिविजयान्तिके ॥ दीक्षां सामायिकोच्चारपूर्विकां प्रत्यपद्यत ॥५२॥ उपरुध्य नृपेणापि कृतः श्रीकरणाधिपः । चकार श्रीयको राज्यचिन्तामवहितः सदा ॥५३॥ कोशाया नित्यमावासे विनीतः श्रीयको ययौ । स्थूलभदवियोगार्ता सापि तं वीक्ष्य चाऽरुदत् ॥५४॥ तेनोचेऽसौ वररुचिः पापो नस्तातघातकः । स्थूलभद्रवियोगं ते विदधे दावदारुणम् ॥५५॥ त्वद्याम्यामुपकोशायामासक्तो यावदस्त्ययम् । तावत्प्रतिक्रियां काञ्चिद् विचिन्तय मनस्विनि ! ॥५६॥ तदादिशोपकोशां यत् प्रतार्य कथमप्यसौ । विधीयतां वररुचिर्मद्यपानरुचिस्त्वया ॥५७॥ प्रेयोवियोगजाद् दुःखाद् दाक्षिण्याद् देवरस्य च । तत्प्रतिज्ञाय सा सद्यस्तत्तथा सर्वमातनोत् ॥५८॥ अथ कोशामुखान्मत्वा श्रीयकस्तं सुरारतम् । लेभे जनकवैरस्य विदितं प्रतियातनम् ॥५९॥
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy