SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९२] [विवेकमञ्जरी गरीयो वचनं गुरुवचनं 'तुह' तव 'छज्जइ' राजते इति संक्षेपार्थः । व्यासार्थस्तु कथानकादवसेयः । तच्चैतत् - ६ देवसौधमणिज्योत्स्नापटलैः पाटलीकृतम् । पाटलीपुत्रमित्यस्तिपुरं पुरमिवामरम् ॥१॥ त्रिखण्डशासिता चण्डवैरिमुण्डविखण्डनः । गुणैर्विश्वजनानन्दो नन्दोऽभूदिह भूपतिः ॥२॥ प्रकटः सेवधिः श्रीणां धियां कुट्टिमसङ्कटम् । शकटाल इति ख्यातस्तस्यामात्यवरोऽभवत् ॥३॥ सुतावजनिषातां द्वौ तस्याइँन्दू इव त्विषा । स्थूलभद्रस्तयोर्येष्ठः कनिष्ठः श्रीयकः पुनः ||४|| यक्षा यक्षदत्ता भूता भूतदत्ता तथैव च । सेणा वेणा तथा रेणा प्राज्ञाः पुत्र्योऽस्य मन्त्रिणाः ॥५॥ उर्वशीवावतीर्णोर्त्यां वशीकृतजगन्मनाः । वेश्याऽऽसीत् तत्र कोशेति रतिकोशो मनोभुवः ॥६॥ प्रत्यहं स्थूलभद्रोऽनुकूलभोगपरायणः । वसति स्म तदावासे समा द्वादश तन्मनाः ॥७॥ श्रीयकस्त्वङ्गरक्षोऽभूद्दक्षो नन्दस्य भूपतेः । जृम्ममाणोरुविश्रम्भस्तस्य स्वान्तमिवाङ्गवत् ।।८।। अभूच्च तत्र कवितारुचिर्वररुचिर्द्विजः । नन्दमानन्दयत्काव्यैर्नयैरयमहर्निशम् ॥९॥ मन्त्री त्वेकादिसंस्थाभिः स्वपुत्रीभिस्तमन्यदा । पराभूय प्रभोस्तुष्टिदानापात्रमसूत्रयत् ॥१०॥ ततो वररुचिश्चक्रे गङ्गान्तर्यन्त्रमत्र च । वस्त्रे बद्ध्वा न्यधाद् यष्टौ दीनारशतमष्टयुक्॥११॥ 15 20
SR No.022279
Book TitleVivek Manjari Part 01
Original Sutra AuthorN/A
AuthorChandranbalashreeji, Pandit Hargovinddas
PublisherJain Vividh Sahitya Shastramala
Publication Year2010
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy