SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ तदप्रियत्वान्न तथ्यं, वध्यमपि यदहितं यथा मृगयुमिः पृष्ठस्यारण्ये मृगान् दृष्टवतो मया मृगा दृष्टा इति, तजन्तुजातघातपापनिमित्तत्वाद् न तथ्यमिति, अदत्तस्य-स्वामिनाऽवितीर्णस्यादानं-ग्रहणं अदत्तादानं, तब स्वामिजीवतीर्थकरगुर्वदत्तभेदेन चतुर्विधं, तत्र स्वाम्यदत्तं-तृणदारुपाषाणादिकं तत्स्वामिना यददत्तं, जीवादत्तं यत्स्वामिना दत्तमपि जीवेनादत्तं, यथा प्रव्रज्यापरिणामरहितो मातापितृभ्यां पुत्रादिर्गुरुभ्यो दीयते सचित्तपृथ्वीकायादिर्वा, तद्धि तत्स्वामिना दत्तमपि तदधिष्ठायकजीवैरदचमिति, तीर्थकरादत्तं यत्तीर्थकरैः प्रतिषिद्धमाधाकर्मादि गृह्यते, गुर्वदत्तं नाम स्वामिना दत्तमाधाकर्मादिदोषरहितं गुरूनननुज्ञाप्य यद् गृह्यते, तस्माद्विरतिस्तृतीयं व्रतं, मिथुनंस्त्रीपुंसद्वन्द्वं तस्य कर्म मैथुनं तस्माद्विरतिश्चतुर्थ व्रतं, परिगृह्यते-आदीयते असाविति परिग्रहः परिग्रहणं वा परिग्रहः, स च धनधान्यक्षे वास्तुरूप्यसुवर्णचतुष्पद द्विपदकुप्यभेदान्नवविधस्तस्माद्विरतिः-मूर्छापरिहारेण निवृत्तिः, 'मुच्छा परिग्गहो वुत्तो' इतिवचनात्, न तु द्रव्यादित्यागमात्रं, यस्मादविद्यमानेष्वपि द्रव्यक्षेत्रकालभावेषु मूर्छया प्रशमसौख्यविपर्यासेन चित्तविप्लवः स्यात् , सत्स्वपि च द्रव्यादिषु तृष्णात्यक्तमनसामसमप्रशमसुखसंप्राप्त्या चित्तविप्लवाभावः, अत एव धर्मोपकरणधारिणामपि मुनीनां शरीरे उपकरणे च निर्ममत्वानामपरिमहत्वं, यदाहुरस्मद्गुरवः-"धर्मसाधननिमित्तमुक्तवद्वस्त्रपात्रमुपकारि धारयन् । देहवन्न हि परिग्रही यतिः, प्रेम नास्य यदि मूर्छया सह ॥१॥" एतानि यतीनां भवन्ति पञ्चैव तुशब्दस्यैवकारार्थत्वान्न चत्वारि, प्रथमपश्चिमतीर्थकृतीर्थयोः पचानामेव भावात् , महान्तिबृहन्ति तानि च ब्रतानि च-नियमा महाव्रतानि, महत्त्वं चैषां सर्वजीवादिविषयत्वेन महाविषयत्वात् , उक्तं च "पढमंमि सम्बजीवा बीए चरिमे य सव्वदव्वाणि । सेसा महव्वया खलु तदेकदेसेण दवाणं ॥१॥" [प्रथमे सर्वजीवा द्वितीये चरमे च सर्वद्रव्याणि । शेषाणि महाब्रतानि खलु तदेकदेशेन द्रव्याणां ॥१॥] इति, तेषां-व्याणामेकदेशेनेत्यर्थः॥अथ श्रमणधर्ममाह-खंती'त्यादि, क्षान्ति:क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः, सर्वथा क्रोधविवेक इत्यर्थः, मृदुः-अस्तब्धस्तस्य भावः कर्म वा मार्दवं-नीचैर्वृत्तिनुत्सेकश्व, अजुः-अवक्रमनोवाकायकर्मा तस्य भावः कर्म वा आर्जवं-मनोवाकायविक्रियाविरहः मायारहितत्वमितियावत्, मोचनं मुक्तिः-बाया. भ्यन्तरवस्तुषु तृष्णाविच्छेदः लोभपरित्याग इत्यर्थः, तप्यन्ते रसादिधातवः कर्माणि वाऽनेनेति तपः, तब द्वादशविधमनशनादि, संयमः -आश्रवविरतिलक्षणः, सत्यं-मृषावादविरतिः, शौचं-संयम प्रति निरुपलेपता निरतीचारतेत्यर्थः, नास्य किचन-द्रव्यमस्तीत्यकिञ्चनः तस्य भाव आकिश्चन्यं, उपलक्षणं चैतत् तेन शरीरधर्मोपकरणादिष्वपि निर्ममत्वमाकिमन्यं, नवब्रह्मचर्यगुप्तिसनाथ उपस्थसंयमो ब्रह्म, एष दशप्रकारो यतिधर्मः, अन्ये त्वेवं पठन्ति-"खंती मुत्ती अजव महव तह लाघवे तवे चेव । संजम चियागऽकियण बोद्धव्वे बंभ चेरे य॥१॥" तत्र लाघवं-द्रव्यतोऽल्पोपधिता भावतो गौरवपरिहारः त्यागः-सर्वसङ्गानां विमोचनं संयतेभ्यो वनादिदानं वा, शेषं प्राग्वत् ॥ अथ संयममाह-'पंचासवेत्यादि, आभूयते-उपाय॑ते कर्म एभिरित्याश्रवाः-अमिनवकर्मबन्धहेतवः प्राणातिपातमृषावादादत्तादानमैथुनपरिग्रहलक्षणाः पच तेभ्यो विरमणं-विनिवर्तनं, इन्द्रियाणि-स्पर्शनरसनघ्राणचक्षुःश्रोत्रलक्षणानि पञ्च तेषां निग्रहो-नियन्त्रणं स्पर्शादिषु विषयेषु लाम्पट्यपरिहारेण वर्जनम्, कषाया:-क्रोधमानमायालोभलक्षणाश्चत्वारस्तेषां जयः-अमिभवः उदितानां विफलीकरणेन अनुदितानां चानुत्पादनेन, दण्ड्यते-चारित्रैश्वर्यापहारतोऽसारीक्रियते एमिरात्मेति दण्डा-दुष्पयुक्ता मनोवाकायास्तेषां त्रयं दण्डत्रयं तस्य विरति:-अशुभप्रवृत्तिनिरोधः, एष सप्तदशविधः संयमो भवति ॥ अथवाऽन्यथा सप्तदशविधः संयमो भवति-पुढवी'त्यादि, पृथिव्युदकानिमारुतवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियाणां मनोवाकायकर्ममिः करणकारणानुमतिमिश्च संरम्भसमारम्भारम्भवर्जनमिति नवधा जीवसंयमः, तत्र "संकप्पो संरम्भो परितातकरो भवे समारंभो । आरम्भो उद्दवओ सुद्धनयाणं तु सव्वर्सि ॥१॥"[संकल्पः संरम्भः परितापकरो भवेत् समारम्भः । आरम्भः उपद्रवतः शुद्धनयानां च सर्वेषां ॥ १॥] तथा अजीवरूपाण्यपि पुस्तकादीनि दुष्षमादिदोषात्तथाविधप्रज्ञाऽऽयुष्कश्रद्धासंवेगोधमबलादिहीनाऽद्यकालीनविनेयजनानुग्रहाय प्रतिलेखनाप्रमार्जनापूर्व यतनया धारयतोऽजीवसंयमः, तथा प्रेक्ष्य-चक्षुषा निरीक्ष्य बीजहरितजन्तुसंसक्त्याविरहितं (यत्) स्थानं तत्र शयनासनचस्क्रमणादीनि कुर्वीतेति प्रेक्षासंयमः, तथोपेक्षासंयमो-गृहस्थस्य पापव्यापारं कुर्वत उपेक्षणं न पुनरिदं प्रामचिन्तनादिकं सोपयोगः कुरु इत्याद्युपदेशनं, अथवा साधूनां संयमं प्रति सीदतां प्रेरणं प्रेक्षासंयमः, पार्श्वस्थादीनां च निद्धंधसानां व्यापारणं प्रत्युपेक्षणमुपेक्षासंयम इति, तथा प्रेक्षितेऽपि स्थण्डिले वसपात्रादौ च रजोहरणादिना प्रमृज्य शयनासननिक्षेपादानादि कुर्वतः कृष्णभूमप्रदेशात्पाण्डुभूमादौ प्रदेशे सागारिकाधनिरीक्षणे सचित्ताचित्तमिअरजोऽवगुण्ठितपादादीनां रजोहरणेन प्रमार्जनं सागारिकादिनिरीक्षणे त्वप्रमार्जनं कुर्वतो वा प्रमार्जनासंयमः, यदुक्तं-"पायाई सागरिए अपमजित्तावि संजमो होइ । ते चेव पमजतेऽसागरिए संजमो होइ ॥ १॥" [पादादीनप्रमार्जयतोऽपि सागारिके सति संयमो भवति । तानेवासागारिके प्रमार्जयतः संयमो भवति ॥१॥] तथा भक्तपानादिकं वस्त्रपात्रादिकं च प्राणिसंसक्तमविशुद्धमनुपकारकं वा जन्तुरहिते स्थाने विधिना समयभणितेन परिष्ठापयतः परिष्ठापनासंयमः, तथा मनसो द्रोहेामिमानादिभ्यो निवृत्तिर्धर्मध्यानादिषु च प्रवृत्तिर्मनःसंयमः, तथा वाचो हिंस्रपरुषादिभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वाक्संयमः, तथा गमनागमनादिष्ववश्यकरणीयेषु यदुपयुक: कायं व्यापारयति स कायसंयमः, इत्येवं सप्तदशप्रकारः प्राणातिपातनिवृत्तिरूपः संयमो भवति ।। इदानीं वैयावृस्यमाह-'आयरियेत्यादि, आचारे-मानाचारादिके पञ्चविधे साधव आचार्याः आचर्यन्ते-सेव्यन्ते इति वा आचार्याः उप-समीपमागत्य विनेयैरधीयते-पठ्यते येभ्यस्ते उपाध्यायाः, तपो विकष्टाविकष्टरूपं विद्यते येषां ते तपखिनः नवतरदीक्षिताः शिक्षाः शैक्षाः ग्लाना-ज्वरादिरोगाकान्ताः
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy