SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ परिणतेस्तेन पटलभेदसम्भवात्, मध्यमानि पश्व, जघन्यानि तु षडेव । तथा वर्षासूत्कृष्टानि पश्व, कालस्यात्यन्तस्निग्धत्वादतिचिरेण पृथ्वीरजःप्रभृतीनां परिणतेस्तेन पटलभेदयोगात्, मध्यमानि षड्, जघन्यानि तु सप्तैव पटलानि भवन्तीति, तानि च पटलानि तथा घनमसृरूपाणि कर्तव्यानि यथा तैस्तिरोहितः सविताऽपि न दृश्यते, प्राकृतत्वाच्च पुंस्त्वमिति ॥ १०६ ॥ इदानीं रजखाणप्रमाणमाह- 'माण' मित्यादि, 'मानं तु' प्रमाणं 'रजस्त्राणे ' रजस्त्राणविषयं भाजनप्रमाणेन - पात्रकप्रमाणेन भवति निष्पन्नं, तचैवं वेदितव्यमित्याह - प्रादक्षिण्यं - वेष्टनं कुर्वन् पात्रस्य मध्ये चतुरङ्गुलमिति - चत्वार्यङ्गुलानि यावत्क्रमति-अधिकं तिष्ठति, एतदुक्तं भवति - पात्रकानुरूपं रजस्त्राणं कर्तव्यं, किं बहुना ?, तिर्यक् प्रदक्षिणाक्रमेण भाजने वेष्ट्यमाने भाजनस्य मध्यभागो यथा चतुर्भिरङ्गुलै रजस्राणेनातिक्रम्यते तथा रजस्राणं विधेयं - कार्य, प्रयोजनं चास्य मूषकभक्षणरेणूत्करवर्षोदकावश्यायसचित्तपृथिवीकायादिसंरक्षणं, उक्तं च - "मूसगरयउकेरे वासासिव्हारए य रक्खट्ठा | होंति गुणा रयत्ताणे एवं भणियं जिनिंदेहिं ॥ १ ॥ " [ मूषकरजउत्केरः वर्षा अवश्याये रजसि च रक्षार्थ । भवन्ति गुणा रजखाणे एवं भणितं जिनेन्द्रैः॥१॥ ] ॥५०७॥ इदानीं कल्पप्रमाणमाह-' कप्पे 'त्यादि, कल्पा आत्मप्रमाणाः - सार्धहस्तत्रयप्रमाणा दैर्घ्यतः सार्धहस्तद्वयप्रमाणाश्च विस्तरतो विधेयाः, तेषां च मध्ये द्वौ 'सौत्रिकौ' सूत्रनिष्पन्नौ प्रच्छादनपटीरूपौ तृतीयः पुनरौर्णिकः - ऊर्णानिष्पन्नः कम्बल इत्यर्थः ॥५०८॥ इदानीं रजोहरणमानमाह-'बत्ती' त्यादि, द्वात्रिंशदङ्गुलानि दीर्घ तावद्रजोहरणं सामान्येन कार्य, तत्र च चतुर्विंशतिरङ्गुलानि दण्डः 'से' तस्य करणीयः, अष्टाङ्गुलाश्च दसिकाः कार्याः, अथवा एकतरत् हीनमधिकं वा कार्य, कोऽर्थः १ - दण्डो वा हीनो दसिका अधिकमानाः दण्डोऽधि - कप्रमाणो दसिका ही प्रमाणाः, सर्वथा समुदायतस्तद् द्वात्रिंशदङ्गुलं कर्तव्यमिति । यश्चाधुनातनाः साधुमान्द्याः केचिदेवमाचक्षते - रजोहरणं 1 १ इतः प्रारभ्य बहुतरदोषसंभव इतीति पर्यन्तः पाठः केनापि कारणेन नहो मुद्रिते एतदीयादर्शे । मध्यभागे पाशकत्रययुक्तं भवतु 'मज्झे तिपासियं कुज्जत्ति [ मध्ये त्रिपाशितं कुर्यात् ] सिद्धान्तवचनात् अधस्तनदवरकं तु ( ये ) बनि रजोहरणे ते मिध्यादृशः साधवो भगवदाज्ञाभङ्गकारित्वादिति, तान् प्रतीदमभिधीयते - गीतार्थैः रजोहरणे अधस्तनदवरकबन्धस्याचरितत्वात् मिथ्यादृष्टिता न तद्बन्धकसाधूनां न चाशठपञ्चगीतार्थाचरितं कुर्वतां भगवदाज्ञाभङ्गोऽपि कश्चन, 'असढेहिं समाइनं जं कत्थइ केणई असावज्रं । न निवारियमन्नेहिय तं बहुगुणमेवमायरियं ॥ १ ॥ [ अशठैः समाचीर्णं यत् क्वचित् केनचित् असावद्यं । न निवारितमन्यैश्च तद् बहुगुणमेवमाचरितं ।। १ ।। ] इति गणधरैरेवाभिहितत्वात्, अपरं च एवं व्याकुर्वतां गीतार्थाचरितं च न्यक्कुर्वतां तेषामेव मिथ्यादृष्टिताप्रसक्तिः, यतस्तेऽपि अहो सिद्धान्तोक्तकारकंमन्या ! भवद्भिः सिद्धान्तोक्तादधिकं किमपि न विधीयते ?, तत आस्तां तावदन्यत् रजोहरणमपि 'घणं मूले थिरं मज्झे, अग्गे मद्दवजुत्तयं । एगंगियं अद्भुसिरं, पोरायामं तिपासियं ॥ १ ॥ अप्पोलं मिड पन्हं, पडिपुण्णं हत्थपूरिमं । रयणीपमाणमित्तं, कुज्जा पोरपरिग्गहं ॥ २ ॥ [ घनं मूले स्थिरं मध्ये अप्रे मार्दवयुक्तं एकाङ्गिकं अशुषिरं पर्वायामं त्रिपाशितं ॥ १ ॥ पोल्लररहितं मृदु पक्ष्मलं प्रतिपूर्ण हस्तपूरकं । हस्तप्रमाणं कुर्यात् पर्वेपरिग्राह्यं ॥ २ ॥ ] इत्यागमानमिहितं कुर्वतां भवतामपि भगवदाज्ञाभङ्गकारित्वेन मिध्यादृष्टित्वं प्राप्तं, ततो भवद्भिरपि गीतार्थाचरितमवश्यं शरणीकर्त्तव्यं अन्यथा तु बहुतरदोषसंभव इति । मुखवत्रिकामानमिदानीमाह - 'चउ' इत्यादि, चत्वार्यङ्गुलानि एका च वितस्तिरेतश्चतुरस्रस्य मुखानन्तकस्य - मुखवस्त्रिकायाः प्रमाणं, अथवा द्वितीय आदेशो - मतान्तरं मुखप्रमाणेन निष्पन्नं मुखानन्तकं, एतदुक्तं भवति - वसतिं प्रमार्जयतः साधोर्नासिकामुखयो रजःप्रवेशरक्षणार्थ उच्चारभूमौ नाशिकार्शोदोषपरिहारार्थ च यावता मुखं प्रच्छाद्यते ज्यत्रं कोणद्वये गृहीत्वा पृष्ठतश्च कृकाटिकायां यावता प्रन्थिर्दातुं शक्यते तावत्प्रमाणा मुखवखिका करणीयेति ।। ५१० ॥ इदानीं मात्रकप्रमाणमाह-'जो' इत्यादि, यो 'मागधो' मगधदेशोद्भवः प्रस्थः-दो असईओ पसई दो पसईओ य सेइया होई । चउसेइयाहिं कुलओ चउकुलओ मागहो पत्थो ॥ १ ॥ [ द्वे असती प्रसृतिः द्वे प्रसृती सेतिका भवति चतसृभिः सेतिकाभिः कुलवः चतुष्कुलवो मागधः प्रस्थः ॥ १ ॥ ] इति क्रमनिष्पन्नः तन्मानात्सविशेषतरं - अधिकतरं मात्रकप्रमाणं भवति, तेन च किं प्रयोजनमित्याह - द्वयोरपि — वर्षावर्षयोः - वर्षा कालऋतुबद्धकालयोर्गुर्वादिप्रायोग्यद्रव्यग्रहणं क्रियते, अयमधिकारःइदं मात्रकस्य प्रयोजनं, एतदुक्तं भवति - यदि तत्र क्षेत्रे गुरुग्लानप्राघूर्णाकादिप्रायोग्यद्रव्यस्यावश्यंभावी लाभः तदा वैयावृत्त्यकरसङ्घाटक एव मात्रके तत्प्रायोग्यं द्रव्यं गृह्णाति, असति च प्रायोग्यद्रव्यस्य ध्रुवलामे सर्व एव सङ्घाटका मात्रकेषु गुर्वादिप्रायोग्यं द्रव्यं गृह्णन्ति, यतो न ज्ञायते कः किं लप्स्यते महोश्विन्नेति, तथा यत्र यत्र क्षेत्रे काले वा स्वभावेनैव भक्तपानं संसज्यते तत्र प्रथमं मात्रके तद् गृह्यते, ततः शोधयित्वा भक्तपानमितरेषु पतद्ग्रहेषु प्रक्षिप्यते, तथा दुर्लभघृतादिद्रव्यग्रहणं सहसादानग्रहणं च तेन क्रियते, इत्यादि मात्रकस्य प्रयोजनमिति ॥५११॥ अपरं च मात्रकस्य प्रमाणमाह- 'सूओ' इत्यादि, अत्र प्राकृतत्वेन विभक्तिव्यत्ययात्सूपोदनेन - वाली कूरेण भृतं यदेकं स्थानं—भाजनरूपं द्विगव्यूतादध्वन आगतः साधुर्भुङ्क्ते तदेतत्किल मात्रकस्य द्वितीयं प्रमाणं, मूलनगरादुपनगरगोकुलादिषु द्विगव्यूतस्थितेषु मिक्षामटित्वा समागत्य वसतौ मात्रके सर्व प्रक्षिप्य तदानीमेतावता श्रमेण एकस्थानस्थितस्तत्सूपादिकं भुङ्क्ते यदि च यावन्मात्रं सूपादिकं साधुर्भोक्तुं शक्नोति तावन्मात्रमेव तत्र मात्रके माति न न्यूनमधिकं वा तदा तत्प्रमाणं मात्रकस्येति तात्पर्य ॥ ५१२ ॥ इदानीं चोलपट्टमामाह - 'दिगुणो' इत्यादि, द्विगुणश्चतुर्गुणो वा कृतः सन् यथा हस्तप्रमाणश्चतुरस्रश्च भवति तथा चोलस्य- पुरुषचिह्नस्य पट्टः - प्रावरणवस्त्रं चोलपट्टः कार्यः, किमर्थं द्विगुणचतुर्गुणो वेत्याह- 'थेरजुवाणाणट्ठ'त्ति क्रमेण स्थविराणां यूनां च साधूनामर्थाय - प्रयोजनाय, स्थविराणां द्विहस्त:, तदिन्द्रियस्य प्रबलसामर्थ्याभावादल्पेनाप्यावरणात्, यूनां च चतुर्हस्तश्चोलपट्टकः करणीय इति भावः, 'सण्हे धुलमि य 81
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy