________________
परिहीयमाना परिहीयमाना सर्वेषु चरमान्तेषु मक्षिकापत्रादपि प्रतनुवरत्वादनुलासङ्ख्येयभागमात्रबाहल्या सर्वश्वेतसुवर्णमयी स्फटिकनिर्मल उत्तानच्छत्रसंस्थिता घृतभृततथाविधकरोटिकाकारा च ईषत्प्राग्भारा नाम सिद्धशिला भवति, स्थापना चेयं ~, सर्वार्थाद् द्वादशमिर्योजनैर्लोकान्त इत्यन्ये, तस्याश्चेषत्प्राग्भाराया उपरि योजने गते लोकान्तो भवति, तस्य च योजनस्य य उपरितनक्रोश:-चतुर्थ गव्यूतं तस्य च क्रोशस्य सर्वोपरितने षष्ठे भागे-त्रयस्त्रिंशदधिकानि त्रीणि धनुःशतानि धनुत्रिभागश्चेत्येवंरूपे सिद्धानामवगाहना अवस्थितिमणिता, एतावत्या एवोत्कर्षतः सिद्धावगाहनाया भावात् , यदुक्तं-"तिन्नि सया तेत्तीसा धणुत्तिभागो य कोस छब्भाओ। जं परमोगाहोऽयं तो ते कोसस्स छब्भागे ॥१॥"तथा अलोए' इह सप्तमी तृतीयार्थे अलोकेन केवलाकाशास्तिकायरूपेण 'प्रतिहताः' स्खलिताः सिद्धाः, इह च तत्र धर्मास्तिकायाद्यभावात्तदानन्तर्यवृत्तिरेव प्रतिस्खलनं, न तु सम्बन्धे सति विघातोऽप्रतिघातत्वात् , सप्रतिघातानां हि सम्बन्धे सति विघातो नान्येषां इति, तथा 'लोकस्य पञ्चास्तिकायात्मकस्याग्रे-मूर्धनि 'प्रतिष्ठिता:' अपुनरागत्या व्यवस्थिताः, तथा 'इह' मनुष्यक्षेत्रे 'बोन्दि' तनुं त्यक्त्वा 'तत्र' लोकाप्रे समयान्तरप्रदेशान्तरास्पर्शनेन गत्वा 'सिद्ध्यन्ति' निष्ठितार्था भवन्ति, अत्रानुस्वारलोपो द्रष्टव्यः, अथवा एकवचनतोऽप्येवमुपन्यासः सूत्रशैल्या अविरुद्ध एव, तथा चान्यत्रापि दृश्यते-"वत्थगंधमलंकारं, इथिओ सयणाणि य । अच्छंदा जे न भुंजंति, न से चाइत्ति वुच्चइ ॥ १॥" ॥ ४८६-४८७ ॥ ५५ ॥ सम्प्रति 'अवगाहणा य तेसिं उक्कोस'त्ति षट्पञ्चाशत्तमं द्वारमाह
तिण्णि सया तेत्तीसा धणुत्तिभागो य होइ बोद्धव्वो । एसा खलु सिद्धाणं उक्कोसोगाहणा
भणिया॥४८८॥ धनुषां त्रीणि शतानि त्रयविंशदधिकानि धनुषस्तृतीयभागश्च भवति बोद्धव्यः एषा खलु सिद्धानामुत्कृष्ठाऽवगाहना भणिता, इयमत्र भावना-सिद्धिगमनयोग्योत्कृष्टावगाहनायाः पञ्चधनुःशतरूपायास्तृतीयो भागः षषष्ट्यधिकं धनुःशतं चतुःषष्टिश्चाङ्गुलानि, स च सिद्धिगमनकाले वदनोदरादिविवरपूरणेन सङ्कोचित इति धनुःशतपञ्चकात्पात्यते, ततः शेषमुत्कृष्टा सिद्धावगाहनेति, यत्पुनः पञ्चविंशत्यधिकपञ्चधनुःशतप्रमाणमुत्कृष्टमवगाहनामानं सिद्धिगमनयोग्यानां मरुदेवीप्रभृतीनां कापि श्रूयते तदादेशान्तरेण ज्ञातव्यं ।। ४८८ ॥५६॥ इदानीं 'मज्झिमसिद्धोगाहण'त्ति सप्तपञ्चाशत्तमं द्वारमाह
चत्तारि य रयणीओ रयणि तिभागूणिया य पोव्वा । एसा खलु सिद्धाणं मज्झिमओगाहणा
भणिया ॥ ४८९॥ चतस्रो रत्नयो-हस्ता रनिश्च त्रिभागोना बोद्धव्या, एषा खलु सिद्धानां मध्यमावगाहना भणिता, श्रीमहावीरस्य हि भगवतः सप्त हस्ताः शरीरमानं, ततः सिद्धावस्थायां शुषिरपूरणायाङ्गलाष्टकाधिकहस्तद्वयरूपे त्रिभागे समुत्सारिते शेषं चत्वारो हस्ताः षोडश चाकुलानि मध्यमावगाहनेति, उपलक्षणं चैतत् , तत उत्कृष्टायाः सिद्धावगाहनाया अधो जघन्यायाश्वोपरि सर्वापि मध्यमावगाहना भवतीत्यवगन्तव्यं, आह-जघन्यपदे सप्तहस्तोच्छ्रितानामागमे सिद्धिरुक्ता तत एषा जघन्या प्राप्नोति कथं मध्यमा ?, तदयुक्तं, वस्तुतत्त्वापरिज्ञानात् , जघन्यपदे हि तीर्थकरापेक्षया सप्तहस्तोच्छ्रितानां सिद्धिरुक्ता सामान्यकेवलिनां तु हीनप्रमाणानामपि भवति, इदमपि चावगाहनामानं 'चिन्त्यते सामान्यसिद्धापेक्षया, ततो न कश्चिद्दोषः॥४८९॥ ५७॥ इदानीं 'जहन्न सिद्धोगाहण'त्यष्टपचाशत्तमं द्वारमाह
एगा य होइ रयणी अहेव य अंगुलाइ साहीया । एसा खलु सिद्धाणं जहण्णओगाहणा
भणिया ॥४९॥ एका च भवति रनिः परिपूर्णा अष्टौ चाललान्यधिकानि एषा खलु सिद्धानां जघन्यावगाहना भणिता तीर्थकरगणधरैः, सिद्धिगमनयोग्यानां हि जघन्या अवगाहना हस्तद्वयप्रमाणा, ततः शुषिरपूरणाय षोडशाङ्गुललक्षणे त्रिभागे पातिते सति अङ्गलाष्टकाधिक एको हस्तो जघन्यावगाहना भवति, एषा च पुत्रादीनां द्विहस्तानामवसेया, यद्वा सप्तहस्तोच्छ्रितानामपि यत्रपीलनादिना संवर्तितशरीराणामिति ॥ ४९० ॥ ५८ ॥ इदानीं 'सासयजिणपडिमानामाई'त्येकोनषष्टं द्वारमामश्रणपूर्वमाशिषा प्राह
सिरि उसहसेणपहु १ वारिसेण २ सिरिवद्धमाणजिणनाह ३ । चंदाणण ४ जिण सव्वेवि भव
हरा होह मह तुन्भे ॥४९१॥ श्रीवृषभसेनप्रभो! वारिषेण श्रीवर्धमानजिननाथ चन्द्राननजिन सर्वेऽपि यूयं 'भवहरा' संसारनिर्नाशका भवत ममेति ॥ ४९१ ॥ सम्प्रति 'जिनकप्पिगोपगरणसंख'त्ति षष्टितमं द्वारमाह
पत्तं पत्ताबंधो पायट्ठवणं च पायकेसरिया। पडलाइं रयत्ताणं च गुच्छओ पायनिजोगो ॥ ४९२॥ तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपोत्ती। एसो दुवालसविहो उवही जिणकप्पियाणं तु ॥४९३ ॥ जिणकप्पियावि दुविहा पाणीपाया पडिग्गहधरा य । पाउरणमपाउरणा एकेका ते भवे दुविहा ॥ ४९४ ॥ दुग १ तिग २ चउक्क ३ पणगं ४ नव ५ दस ६ एक्कारसेव ७ बारसगं ८॥
78