SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ जेन तमाकारयति तदा ब्रतसापेक्षत्वात् शब्दानुपातरूपानुपातावतीचाराविति तृतीयचतुर्थी तथा बहिर्विवक्षितक्षेत्रात्पुद्गलस्य-लेष्टुकाष्ठशकलादेः प्रक्षेपणं प्रक्षेपः, विशिष्टदेशामिप्रहे हि सति कार्यार्थी परतो गमननिषेधाद्यदा लेष्ट्वादीन् परेषां बोधनाय क्षिपति तदा लेट्वादिपातसमनन्तरमेव ते तत्समीपमनुधावन्ति, ततश्च तान् व्यापारयतः स्वयमनुपमर्दकस्याप्यती चारो भवतीति पञ्चमः ५, इह चाद्यद्वयमन्युत्पन्नबुद्धित्वेन सहसाकारादिना वा अन्त्यत्रयं तु मायावितया अतीचारतां यातीति एते दोषा-अतीचारा देशावकाशिकव्रतस्य, अत्राहुवृद्धाः - दिग्ग्रतसङ्क्षेपकरणं शेषव्रतसङ्क्षेपकरणस्याप्युपलक्षणं द्रष्टव्यं तेषामपि सङ्क्षेपस्यावश्यं कर्तव्यत्वात् प्रतिव्रतं च सङ्क्षेपकरणस्य भिन्नतत्वे द्वादश व्रतानीति सङ्ख्याविरोधः स्यादिति, तत्र केचिदाचक्षते - दिग्नतसङ्क्षेप एव देशावका शिकव्रतं, तदतीचाराणां दिग्ब्रतानुसारितयैवोपलम्भात्, अत्रोच्यते, यथोपलक्षणतया शेषत्रतसङ्क्षेपकरणमपि देशावकाशिकमुच्यते तथोपलक्षणतयैव तदतीचारा अपि तदनुसारिणो द्रष्टव्याः, अथवा प्राणातिपातादित्रतान्तरसङ्क्षेपकरणेषु वधबन्धादय एवातीचाराः, दिग्व्रतसङ्क्षेपकरणे तु सङ्क्षिप्तत्वात् क्षेत्रस्य प्रेष्यप्रयोगादयोऽप्यतीचाराः स्युरिति भेदेन दर्शिताः, न च सर्वेष्वपि व्रतभेदेषु विशेषतोऽतीचारा दर्शनीयाः, रात्रिभोजनादिव्रतभेदेषु तेषामदर्शितत्वादिति ॥ २८४ ॥ अथ पौषधव्रतातीचारानाह - 'अप्पडिले 'त्यादि, अप्रत्युपेक्षिताप्रमार्जिताभ्यां दुष्प्रत्युपेक्षितदुष्प्रमार्जितयोरपि ग्रहणं, नमः कुत्सार्थस्यापि दर्शनात्, यथा कुत्सितो ब्राह्मणोऽब्राह्मणः, ततोऽप्रत्युपेक्षित दुष्प्रत्युपेक्षितं शय्यासंस्तारकादीति प्रथमो - ऽतीचारः, अप्रमार्जितदुष्प्रमार्जितं शय्यासंस्तारकादीति द्वितीयः, अप्रत्युपेक्षित दुष्प्रत्युपेक्षितमुञ्चारप्रश्रवणादिस्थण्डिलमिति तृतीयः, अप्रमार्जितदुष्प्रमार्जितमुच्चारप्रश्रवणादिस्थण्डिलमिति चतुर्थः, तत्र अप्रत्युपेक्षितं - चक्षुषाऽनिरीक्षितं दुष्प्रत्युपेक्षितं- विभ्रान्तचेतसा निरीक्षितं अप्रमार्जितं-रजोहरणवस्त्राभ्वलादिना न विशोधितं दुष्प्रमार्जितं - अविधिनाऽनुपयुक्ततया च रजोहरणादिना विशोधितं, इह च सामाचारी - गृहीतपौषधो नाप्रत्युपेक्षितां शय्यामारोहति संस्तारकं वा पौषधशालां वा सेवते दुर्भवस्त्रं वा शुद्धवखं वा भूमौ संस्तृणाति, कायिकाभूमेश्चागतः पुनरपि संस्तारकं प्रत्युपेक्षते, अन्यथाऽतीचारः स्यात्, एवं पीठादिष्वपि वाच्यं ४ तथा पौषधव्रतस्य सम्यग् - यथागमं निष्प्रकम्पेन चेतसा अननुपालनं - अनासेवनं, तथाहि - आहारादिविषये चतुर्विधे पौषधे प्रतिपन्ने सति बुभुक्षातृषापीडितः सन्नेवं चिन्तयति - प्रातरिदमिदं शाल्योदनघृतपूरपुरस्सरमाहारजातं पाचयिष्यामि द्राक्षापानकादीनि च पानकानि कारयिष्यामि, तथा शरीरसत्कारपौषधठेशितश्चिन्तयति - प्रभाते स्नानकुङ्कुमादिविलेपनं भव्यरीत्या करिष्यामीति तथा ब्रह्मचर्यपौषधे चिन्तयति पूर्वक्रीडितानि मदनोद्दीपकानि च वचनचेष्टादीनि करोतीति, तथा अव्यापारपौषधेऽपीदं मे करणीयं व्यवहरणीयं चास्ति इदं लभ्यमिदं च देयमित्यादि चिन्तयन्नतिचरति व्रतमिति पश्चमः ५ एते अतीचाराः पञ्च पौषधत्रते ।। २८५ ॥ इदानीमतिथिसंविभागव्रतातीचारानाह - 'स चित्ते'त्यादि, सचित्ते-सचेतने पृथिवीजलकुम्भोपचुल्लीधान्यादौ निक्षेपणं निक्षेपः - साधुदेयभक्तादेः स्थापनमदेयबुद्ध्या, असौ हि तुच्छबुद्धिर्जानाति यत् मया गृहीतनियमेन साधूनामवश्यं देयं न चैते मुनयः सचित्ते निक्षिप्तं गृहीष्यन्ति मया दीयमानमपि ततो मया निजनियमोऽप्याराधितो भविष्यति वस्त्वप्यशनादिकं रक्षितं भविष्यतीत्येवं कुर्वतोऽतीचारः प्रथमः १ तथा सचित्तेन - सूरणकन्दपत्रपुष्पफलादिना तथाविधयैव बुद्ध्या पिधानं - आच्छादनं देयस्य वस्तुन इति द्वितीयः २ चः समुच्चये, तथा - अन्यस्य - परस्य व्यपदेशो ऽन्यव्यपदेशः, इदं हि शर्करागुडखण्डघृतपूरादिकं यज्ञदत्तसम्वन्धीति व्रतिनः श्रावयन् ढौकयत्यदेयबुद्ध्या, न च प्रतिनः खामिनाऽननुज्ञातं गृहन्तीति नियमोऽपि तेन न भग्नः शर्करादिकं च रक्षितमिति तृतीयोऽतीचारः ३ तथा मत्सरः - कोपः स विद्यते यस्येति मत्सरिकस्तस्य भावो मत्सरिकता तथा दददतिचरति व्रतं, कोऽमिप्रायः ? - मार्गितः सन् कुप्यति सदपि वस्तु न ददातीति, अथवाऽनेन तावद् द्रमकेण मार्गितेन दत्तं मुनिभ्यः किमहं ततोऽपि निकृष्टः ? इति मात्सर्यात् - परगुणासहनलक्षणाद्ददतोऽतीचारश्चतुर्थः ४ तथा कालस्य - साधूनामुचितमिक्षासमयस्यातीतमतिक्रमः - अदित्सयाऽनागतभोजनपश्चाद्भोजनद्वारेणोलङ्घनं कालातीतं, अयं भावः - उचितो यो भिक्षाकालः साधूनां तं लबयित्वा प्रथमं वा भुञ्जानस्य गृहीतातिथिसंविभागनियमस्यातीचारः पञ्चमः ५ एते दोषा अतिथिविभागे - अतिथिसंविभागे व्रते इति ॥ २८६ ॥ सम्प्रति 'भरहंमि भूयसंपइभविस्सतित्थंकराण नामाई । एरवयंमिवि ताई संपइजिणभाविनामाई' ति सप्तमं द्वारं विवरीतुमाहभरती संपइ भाविजिणे वंदिमो चउव्वीसं । एरवयंमिवि संपइभाविजिणे नामओ वंदे ॥ २८७॥ केवलनाणी १ निव्वाणी २ सायरो ३ जिणमहायसो ४ विमलो ५ । सव्वाणुमूह (नाहसुतेया ) ६ सिरिहर ७ दत्तो ८ दामोयर ९ सुतेओ १० ॥ २८८ ॥ सामिजिणो य ११ सिवासी १२ सुमई १३ सिवगइ १४ जिणो य अत्थाहो १५ (अबाहो) । नाहनमीसर १६ अनिलो १७ जसोहरो १८ जिणको १९ ॥ २८९ ॥ घम्मीसर २० सुद्धमई २१ सिवकरजिण २२ संदणो य २३ संपह य २४ । ती उस्सप्पिणिभरहे जिणेसरे नामओ वंदे ॥ २९० ॥ उसभं १ अजियं २ संभव ३ म भिनंदण ४ सुमइ ५ पउमप्पह ६ सुपासं ७ | चंदप्पह ८ सुविहि ९ सीअल १० सेजंसं १९ वासुपूज्जं च १२ ॥ २९९ ॥ विमल १३ मतं १४ धम्मं १५ संतिं १६ कुंथं १७ अरं च १८ मल्लि च १९ । मुणिसुव्वय २० नमि २१ नेमी २२ पासं २३ वीरं २४ च पणमामि ॥ २९२ ॥ जिणपउमनाह १ सिरिसुरदेव २ सुपास ३ सिरिसयंपभयं ४ । सव्वाणुभूह ५ देवसुय ६ उदय ७ पे 53
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy