SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ चिंधं सकेयमेवाहु साकेयं ॥ १९९ ॥ अंगुट्ठी गंठी मुट्ठी धैरसेयुस्सासथिवुगजोइक्खे । पच्चक्खा णविचाले किचमिणमभिग्गहेसुवि य ॥२०॥ 'भावि अईयमित्यादि भावि-अनागतं अतीतं-पूर्वकालकरणीयं कोटिसहितं चः समुच्चये. नियत्रितं चः पूर्ववत् साकारं-सहाकारैयद्वर्तते अनाकारं विगताऽऽकारमाकाररहितं परिमाणवत् निरवशेषमष्टमकम् ॥ १८७ ॥ 'साकेय'मित्यादि साकेतं च-कृतसङ्केतं नवमं, तथाऽद्धाप्रत्याख्यान दशमकमिति । तत्र यत्सङ्केतप्रत्याख्यानं तदष्टधा भवति, यच्चाद्धाप्रत्याख्यानं तशधा भवेदिति गाथासङ्केपार्थः ॥ १८८ ॥ इदानीं मूलतोऽपि सर्वाणि प्रत्याख्यानानि क्रमेण व्याख्यायन्ते, तत्र भाविप्रत्याख्यानस्वरूपमिदं-होहीपज्जोसवणेत्यादि सार्द्धगाथा, भविष्यति पर्युषणादिपर्व, तत्र चाष्टमादि तपोऽवश्यं समाराधनीयं, तत्र पर्युषणादौ न तपः अष्टमाद्यं भवेत् कर्तु मे-मम, केन हेतुनेत्याह-गुरुगणे ति गुरूणां-आचार्याणां गणस्य-च्छस्य ग्लानस्य-रोगाभिभूतस्य शैक्षकस्य-नूतनप्रवाजितस्य तपस्विनोविकृष्टादितपश्चरणकारिणो यत्कार्य-विश्रामणाभक्तपानाऽऽनयनादिलक्षणं तेन यदाकुलत्वं तेन हेतुना ॥ १८९ ।। 'इय चिंती'त्यादिइति चिन्तयित्वा पूर्वमेव-पर्युषणादिपर्वणोऽर्वागेव यत्क्रियते तदनागतं तप इति 'बिन्ति'त्ति ब्रुवते १ । अतीतं पुनरिदं-'तमइकंत' इति गाथोत्तरार्ध, तदतिक्रान्तमतीतमित्यर्थः, तेनैव हेतुना-गुरुगणादिकार्यव्याकुलतालक्षणेन तप्यते-तपः करोति यदूर्ध्व पर्युषणादिपर्वणि निवृत्तेऽपीत्यर्थः २॥१९०॥ कोटीसहितमाह-'गोसे'त्ति, प्रभातेऽभक्तार्थ-उपवासं यः कृत्वा तं-उपवासं करोति द्वितीयप्रभातेऽपि इति कोटीद्विकमिलने पूर्व दिनकृतोपवासप्रत्याख्याननिष्ठापनालक्षणाया द्वितीयदिनप्रभातक्रियमाणोपवासप्रस्थापनालक्षणायाश्च कोटेमिलने तस्य कोटीसहितमिति नाम्ना प्रत्याख्यानं, एवमष्टमादिषु एकतः कोटिद्वयं निष्ठापनारूपमन्यतश्च तृतीयोपवासस्य प्रस्थापनारूपं, अनयोर्मिलने कोटिसहितं, एवमाचाम्लनिर्विकृतिकैकासनकैकस्थानेष्वपीति ३ ॥ १९१॥ यदाहु णभृत:-"पट्ठवणओ य दिवसो पच्चक्खाणस्स निट्ठवणओ य । जहियं समिति दोनिवि तं भन्नइ कोडिसहियंति" ॥१॥ इति [ प्रस्थापकश्च दिवसः प्रत्याख्यानस्य निष्ठांपकश्च यत्र समितो द्वावपि तद् भण्यते कोटीसहितमिति ॥१॥] 'हटेण' इत्यादि हृष्ठेन-नीरोगेण ग्लानेन वा-सरोगेण वा अमुकं तपः-षष्टाष्टमादि अमुकस्मिन् दिने 'नियमेन निश्चयेन मयेति शेषः 'कायवो'त्ति कर्तव्यं, प्राकृतत्वात्पुंसा निर्देशः, नियत्रिवमिदं प्रत्याख्यानं जिना ब्रुवते ४॥ १९२ ॥ इदं च प्रत्याख्यानं न सर्वकालं क्रियते, किं तर्हि ?, नियतकालमेव, तथा चाह-'चउदसे'त्यादि, चतुर्दशपूर्विषु-चतुर्दशपूर्वधरेषु जिनकल्पिकेषु प्रथम एव संहनने वर्षभनाराचामिधेये एतत्-नियन्त्रितं प्रत्याख्यानं व्यवच्छिन्नमेव, अत्राऽऽह-ननु तस्मिन्नपि काले चतुर्दशपूर्वधरादय एव कृतवन्तः स्थविरैस्तु न कृतमेवेदमित्याह-थेरावि तया करेसीय' स्थविरा अपि तदा-पूर्वधरादिकाले अकार्युः, चशब्दादन्येऽप्यस्थविराः प्रथमसंहननिन इति ॥ १९३ ॥ साकारमिदानीमाह-महयरे'त्यादि, आ-मर्यादया मर्यादाख्यापनार्थमित्यर्थः क्रियन्ते-विधीयन्ते इत्याकारा:-अनाभोगसहसाकारमहत्तराकारादयः, अयं महान् अयं महानयमनयोरतिशयेन महान्महत्तरः, ( अतिशये तरतमपाविति १-१-२२ पाणि०) महत्तर एवाकारो मह्त्तराकारः स आदिर्येषां ते च ते आकाराश्च तैर्युक्तं साकारमभिधीयते, कोऽर्थः ?-भुजिक्रिया प्रत्याख्यानेन मया निषिद्धा, परमन्यत्र महत्तराकारादिमिर्हेतुभूतैःएतेभ्योऽन्यत्रेत्यर्थः, एतेषु सत्सु भुजिक्रियामपि कुर्वतो न भङ्ग इति यत्र भक्तपरित्यागं करोति तत् साकारमिति ५। अनाकारमिदानीमाह-'आकार' इत्यादि, आकारैः-महत्तरादिभिर्यद्विरहितं पुनर्भणितमनाकारं नाम तत् ॥ १९४॥'किंतु इत्यादि, किंच-केवलमिहानाकारेऽपि अनाभोगः सहसाकारश्च द्वावाकारौ भणितव्यौ येन कदाचिदनाभोगतः-अज्ञानतः सहसा वा-रमसेन तृणादि मुखे क्षिपेनिपतेद्वा कुतोऽपि कथमपि ॥ १९५॥'इय कये'त्यादि, इति, कृताकारद्विकमपि शेषैर्महत्तराकारादिमिराकार रहितमनाकारमभिधीयते, इदं चानाकारं कदा विधीयते ? तत्राह-'दुब्भिक्खे'त्यादि-'दुर्भिक्षे' मेघ वृष्ट्याद्यभावे हिण्डमानैरपि मिक्षा न लभ्यते, तत इदं प्रत्याख्यानं कृत्वा म्रियते, 'वृत्तिकान्तारे वा' वर्तते शरीरं यया सा वृत्तिः-भिक्षादिका तद्विषये कान्तारमिव कान्तारं तत्र, यथाऽटव्यां मिक्षा न लभ्यते तथा सिणवल्ल्यादिषु स्वभावाद् अदातृद्विजाकीर्णेषु शासनद्विष्टैर्वाऽधिष्ठितेषु भिक्षादि नाऽऽसाद्यते तदेदं प्रत्याख्यानं तथा वैद्याद्यप्रतिविधेये गाढतररोगे सति गृह्यते, आदिशब्दात्कान्तारे केसरिकिशोरादिजन्यमानायामापदि कुर्यादिति ६ ॥१९६॥ परिमाणवदिदानीमाह-'दत्तीहि वे'त्यादि, दत्तिभिर्वा कवलैर्वा गृहैर्वा मिक्षाभिरथवा द्रव्यैर्यो भक्तपरित्यागं करोति परिमाणकृतमेतत् , तत्र करस्थालादिभ्योऽव्यवच्छिन्नधारया या पतति भिक्षा सा दत्तिरभिधीयते, भिक्षाविच्छेदे च द्वितीया दत्तिः, सिक्थमात्रेऽपि पात्रे पतिते भिन्नैव दत्तिरिति, कुर्कुटाण्डकप्रमाणो बद्धोऽशनपिण्डः कवलोऽभिधीयते, अविकृतेन मुखेन वा यो ग्रहीतुं शक्यते तत्प्रमाणो वा, तत्र द्वात्रिंशत्कवलाः किल पुरुषस्याहारः, स्त्रीणामष्टाविंशति: "बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं मुणेयव्वा ॥१॥” इति वचनात् , ततश्च दत्तिभिरेकद्विच्यादिभिः कवलैश्चैकद्विव्यादिभिर्यावदेकत्रिंशत् पुरुषस्य त्रियाश्च यावत्सप्तविंशतिः, गृहैश्चैकद्वित्र्यादिमिर्भिक्षामिः संसृष्टादिमिर्गृहस्थेन दीयमानादिमिरकेद्व्यादिभिर्द्रव्यैश्च पायसौदनमुद्गादिमिर्यत्र शेषाऽऽहारपरित्यागस्तत्परिमाणकृतं प्रत्याख्यानमित्यर्थः ॥ १९७ ॥ इदानीं निरवशेषमाह-सव्वं असण'मित्यादि-अश भोजने अश्यत इत्यशनमोदनंमण्डकमोदकखज्जकादि पीयत इति पानं कर्मणि ल्युट खजूरद्राक्षापानादि खादनं खादो भावे घन खादेन निर्वृत्तं खादिम 'भावादिम' (पा०४-४-२० वा०) निति इमनि खादिम-नालिकेरफलादि गुडधानादिकं च स्वदनं स्वादस्तेनैव निर्वृत्तं तथैवेमनि स्वादिम-एलाफलकपूर 30
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy