SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ व्याहृतो यत्रास्ते तत्रस्थ एवोल्लापं ददाति, न पुनः समीपमागत्योत्तरं ददातीति, इयं चान्याऽऽशातना शिष्यस्य । १४२ मत एवाह-'सेहो गुरुणा भणिओ तत्थ गओ सुणइ देइ उल्लावं' इति व्याख्यातार्थम् २१, एवं 'किंति च भणइत्ति शिष्यः सूरिणा व्याहृतः किमित्येवं वक्ता, किं भणसीत्यर्थः, एवमाशातना शिष्यस्य, मस्तकेन वन्दे इति चेह वक्तव्यमिति २२. । १४३ । एवं 'तुमंति भणइत्ति शिष्यो रत्नाधिक त्वमिति एकवचनान्तेन वक्ता भवति, 'कोऽसि तुम मज्झ चोयणाए उ'त्ति कस्त्वं मम प्रेरणायामित्यादीनि शिष्यस्याशातना, शिष्यैः श्रीभगवन्तः श्रीपूज्या यूयमित्यादिभिरेव वचनैर्गुरवो भाषणीया इति २३, एवं 'तजाएणं पडिभणणाऽऽसायणा सेहे'त्ति शिष्यो रत्नाधिकं तज्जातेन-तैरेव गुरूक्तवचनैः प्रतिभणिता भवति, कोऽर्थः ?-सूरिणा शिष्य उक्तो-'अजो किं न गिलाण'न्ति ग्लानस्य किमिति किञ्चिन्न करोषि ?, स ब्रूते-त्वं किमिति न करोषि ?, तथा सूरिर्वदति-स्वमालस्यवान , स वदति-भवानेवालस्यवानित्यादिस्वरूपेण तज्जातेन गुरुं प्रति भणिते भवत्याशातना शिष्यस्येति २४ । १४४ । 'नो सुमण'त्ति इत्यस्य व्याख्या-रायणिए य कहते कह च एवं असुमण'त्ति एवं धर्मगुरौ कथां कथयति असुमनस्त्वे सति शिष्यस्याऽऽशातना, अहो एवमिदं शोभनं कथितं पूज्यैरपीति सुमना नोपबृंहयतीत्यर्थः २५ । १४५ । 'एवं नो सरसि तुमं एसो अत्थो न होइ एवं'ति एवं-अनेनैव प्रकारेणान्याऽऽशातना भवति गुरोः कथां कथयतो न भवन्तः स्मरन्ति एषोऽर्थ एवं न भवतीति यदा शिष्यो भाषते २६, इदानीं 'कहं छित्त'त्ति तत्राह-एवं कहमच्छिदिय सयमेव कहेउमारभई' इति गुरौ धर्मकथां कथयति अहं भवतां कथां कथयिष्यामीति गुरुकथाछेदेन शिष्यस्याऽऽशातना २७ । १४६ । 'परिसं भित्त'त्ति इदानीं, तत्राह-तह परिसं चिय भिंदइ तह किंचि भणइ जह न सा मिलई' इति, गुरौ शिक्षापरगुरुवचनेन एव प्र.अ. कथां कथयति शृण्वत्यां च प्रमुदितायां पर्षदि शिष्यो वदति-इयं मिक्षावेला भोजनवेला सूत्रपौरुषीवेला वेत्यादि, एवं पर्षद्भेदेन आशातना तस्य २८, 'इदानी अणुट्टियाए कहे'त्ति तत्राऽऽह-'ताए अणुट्ठियाए गुरुभणियं सवित्थरं भणई' इति गुरुमिर्धर्मकथायां कृतायामनुत्थितायामेव तस्यां पर्षदि स्वस्य पाटवादिज्ञापनाय गुरुभणितमेवार्थ चर्वयित्वा पुनः पुनः सविस्तरं कथयतः शिष्यस्याऽऽशातना २९। १४७ । 'संथारपायघट्टणे'त्ति इदानीं तत्राऽऽह–सेजं संथारं वेति गुरोः शय्यां संस्तारादिकं वा पादैर्घट्टयित्वाऽननुज्ञाप्य करैर्वा स्पृष्टवा न यः क्षमयति तस्याऽऽशातना, तथा चागमः-"संघट्टयित्ता पाएणं, तहा उवहिणामवि । खमेह अवराहं मे, वइज न पुणत्तिय ॥१॥" इति [ पादाभ्यां संघट्टयोपधिमपि क्षमयध्वं ममापराधं तथा वदेत् न पुनरिति ॥ १॥] तत्र शय्या-सर्वाङ्गीणा संस्तारकस्तु सार्धहस्तद्वयप्रमाण इति ३०।१४८ । अथ 'चिट्ठत्ति' तत्राह-गुरुसेजसंथारगचिट्ठण निसीयण तुयट्टणेऽहऽवरा' इति गुरूणां शय्यायां संस्तारके वाऽवस्थाने निषदने त्वग्वर्तने वा क्रियमाणेऽथाऽपरा शिष्यस्याऽऽशातना ३१ 'उच्चसमासणे यावि'त्ति तत्राह-गुरुउच्चसमासणचिट्ठणाइकरणेण दो चरिमा' इति, तत्र गुरोः पुरत उच्चे आसने उपवेशनादि कुर्वत आशातना ३२, एवं गुरोः पुरतः समे आसने उपवेशनादि विदधत आशातना ३३, अनेन गाथोत्तरार्धेन चरमाऽऽशातनाद्वयं गृहीतमिति त्रयस्त्रिंशदाशातनाः । १४९। साम्प्रतं 'दोसा बत्तीसं'ति द्वारं तत्राह अाढियं च थेद्धं च, पविद्धं परिपिंडियं । टोलगेइ अंकुसं चेव, तहा कच्छवरिंगियं ॥ १५०॥ मछुव्वत्तं मणसा पउंटुं तह य वेइंयाबद्धं । भयसा चेव भयंतं मित्ती गाव कारणा ॥१५१ ॥ तेणियं पडिणीयं च, 'टुं तर्जियमेव य । सहुं च हिलियं चेव, तहा विपलिउंचियं ॥ १५२ ॥ दिट्टमदिटुं च तहा, सिंग" च कर मोर्यणं । आलिट्ठमणौलिटुं, ॐणं उत्सरचेलियं ॥१५३ ॥ यं च हरं चेव, चुडुलीयं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्मं पउंजए ॥१५४ ॥ 'अनाढियं चेत्यादि गाथापञ्चकव्याख्या-अनादृतं स्तब्धं प्रविद्धं परिपिण्डितं टोलगतिं अंकुशं चैव तथा कच्छपरिङ्गित मिति प्रथम ॥ १५० ॥ मत्स्योद्वृत्तं मनसा प्रदुष्टं तथा च वेदिकाबद्धं 'भयसा चेव'त्ति भयेनैव 'भयंतं'ति भजमानो वन्दनकमपि भजन मैत्री गौरवं कारणं चाश्रित्य वन्दनकमिति द्वितीयगाथायामष्टौ दोषाः १५ ॥ १५१ ॥ स्तन्येन-चौर्येण कृतं वन्दनमपि स्तैन्यं प्रत्यनीकवन्दनं रुष्टं वन्दनं तर्जयन् वन्दत इति तर्जितवन्दनं शठवन्दनं चशब्दः समुच्चये हीलितवन्दनं तथा विपरिकुश्चितमिति तृतीयगाथायां सप्त दोषाः २२ ॥१५२॥ तथा दृष्टादृष्टं तथा शृङ्गं चः समुच्चये कर(रो)मोचनं आश्लिष्टाऽनाश्लिष्टं न्यूनं उत्तरचूलिकमिति चतुर्थगाथायां सप्त दोषाः २९ ॥ १५३ ॥ मूकं चः समुच्चये ढडुरं चैव तथैव चूडलिकं च पूर्ववत् 'अपच्छिमंति अभद्रमुखो भद्रमुख इतिवदपश्चिमं पश्चिमं पर्यन्तवति इति पञ्चमगाथार्ध त्रयो दोषाः ३२ ॥ १५४॥ एवं द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्स प्रयुजीत साधुरिति दोषनामोत्कीर्तनगाथापञ्चकार्थः । इदानी तानेव यथाक्रम व्याचष्टे आयरकरणं आढा तन्विवरीयं अणाढियं होई।दव्वे भावे थद्धो चउभंगो दव्वओ भईओ ॥१५॥ विद्धमणुवयारंजं अपितो णिजतिओ होड। जत्थ व तत्थ व उज्झड कियकिच्चोवक्खरं चेव ॥१५६ ॥ संपिडिए व वंदइ परिपिंडियवयणकरणओ वावि । टोलोव्व उप्फिडंतो ओस्सकहिसक्कणे कुणई ॥ १५७ ॥ उवगरणे हत्थंमि व घेत्तु निवेसेइ अंकुसं विति । ठिउविट्ठरिंगणं जं 23
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy