SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ पलियं सवरिसलक्खं ससीण पलियं रवीण सयसहस्सं। गहणक्खत्तताराण पलियमद्धं चउन्भागो॥४१॥ तद्देवीणवि तट्टिइअद्धं अहियं तमंतदेविदुगे। पाओ जहन्नमसु तारयतारीणमटुंसो॥४२॥ दो साहि सत्त साहिय दस चउदस सत्सरेव अयराई । सोहम्मा जा सुको तदुवरि एककमारोवे ॥ ४३ ॥ तेत्तीसग्यरुकोसा विजयाइसु ठिह जहन्न इगतीसं । अजहन्नमणुकोसा सबढे अयर तेत्तीसं ॥ ४४ ॥पलियं अहियं सोहंमीसाणेसुं तोऽहकप्पठिई । उवरिलंमि जहन्ना कमेण जावेकतीसऽयरा ॥४५॥ सपरिग्गहेयराणं सोहमीसाण पलियसाहीयं । उक्कोस सत्त वन्ना नव पणपन्ना य देवीणं ॥४६॥ 'भवणे'त्यादिगाथा एकोनविंशतिः, दीव्यन्तीति देवा:-प्राग्भवोपाचपुण्यप्राग्भारोपनतविशिष्टभोगसुखाः प्राणिविशेषाः, ते च मूलभेदतस्तावश्चतुर्विधाः, तद्यथा-भवनपतयो व्यन्तरा ज्योतिष्का विमानवासिनश्च, तत्र भवनानां पतयः-तन्निवासित्वात्स्वामिनो भवनपतयः, तन्निवासित्वं च बाहुल्यतो नागकुमाराद्यपेक्षया द्रष्टव्यं, ते हि प्रायो भवनेषु वसन्ति कदाचिदावासेषु, असुरकुमारास्तु प्राचुर्येणावासेषु कदाचिद्भवनेषु, भवनानामावासानां चायं विशेष:-भवनानि बहिर्वृत्तान्यन्तः समचतुरस्राणि अधःकर्णिकासंस्थानानि, आवासास्तु कायमानस्थानीया महामण्डपा विचित्रमणिरत्नप्रभाभासितसकलदिकका इति । तथा विविधमन्तरं-शैलान्तरं कन्दरान्तरं बनान्तरं वा आश्रयरूपं येषां ते वनान्तराः, यदिवा विगतमन्तरं-विशेषो मनुष्येभ्यो येषां ते व्यन्तराः, तथाहि-मनुष्यानपि चक्रवर्तिवासुदेवप्रभृ. तीन् भृत्यवदुपचरन्ति केचिद्यन्तरा इति मनुष्येभ्यो विगतान्तराः, प्राकृतत्वाश सूत्रे 'वाणमंतरा' इति पाठः, यद्वा वानमन्तरा' इति पदसंस्कारः, तत्रापि बनानामन्तराणि वनान्तराणि तेषु भवा वानमन्तराः, पृषोदरादित्वादुभयपदान्तरालवर्ती माममः, इदं तु व्युत्पतिनिमित्तं प्रवृत्तिनिमित्तं तु सर्वत्रापि जातिभेद पवानुसतव्यः । तथा द्योतयन्ति-प्रकाशयन्ति जगदिति ज्योतींषि-विमानावि तेषु भवा ज्योतिष्काः । तथा विविधं मान्यन्ते-उपभुज्यन्ते पुण्यवद्भिर्जीवैरिति विमानानि तेषु वसन्ती येवंशीला विमानवासिनः । एते च भवनपत्यादयो देवाः 'क्रमेण यथासह्यं दशाष्टपञ्चषडिंशतिसर्भदैर्युक्ता भवन्ति ॥ २८ ॥ सम्प्रत्येतानेव क्रमेण भेदानमिधित्सुः प्रथमं ताव वनपतिभेदानाह–'असुरे'त्यादि, भवनवासिनां अवान्तरजातिभेदमधिकृत्य दश भेदा भवन्ति, तद्यथा-'असुरा' इति पदैकदेशे पदसमुदायोपचारादसुरकुमाराः एवं नागकुमारा इत्याद्यपि परिभावनीयं, अथ कस्मादेते कुमारा इति व्यपदिश्यन्ते ?, उच्यते, कुमारवच्चेष्टनात् , तथाहि-सर्व एवैते कुमारा इव शृङ्गारामिप्रायकृतविशिष्टोत्तरोत्तररूपक्रियासमुद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहना अत्युल्बणरागाः क्रीडनपराश्च, ततः कुमारा इव कुमारा इति, गाथानुबन्धानुलोम्यादिकारणाच कुतश्चिदेते एवं पठिताः, प्रज्ञापनादौ त्वमुनैव क्रमेण पठ्यन्ते, तथाहि-"असुरा नाग सुवन्ना विजू अग्गी य दीव उदही य । दिसिपवणथणियनामा दसहा एए भवण. वासी ॥ १॥" ॥ २९ ॥ व्यन्तरभेदानाह–'पिसाये'त्यादि, सुगमा ॥ ३० ॥ इहापरेऽप्यष्टौ व्यन्तरभेदाः सन्ती त्यतस्तानप्याह'अणे'त्यादिगाथाद्वयं, अप्रज्ञप्तिकाः पञ्चप्रज्ञप्तिकाः ऋषिवादिताः भूतवादिताः क्रन्दिताः महाकन्दिताः कूष्मा पिशाचादिव्यतिरिक्ता अष्टौ व्यन्तरनिकायाः, रत्नप्रभायाः पृथिव्याः प्रथमे-उपरितने योजनशते भवन्ति, एतदुक्तं भवति-रत्नप्रभाया उपरितने रत्नकाण्डरूपे योजनसहस्र अध उपरि च प्रत्येकं योजनशतरहिते पिशाचादयोऽष्टी व्यन्तरनिकायाः सन्ति, तत्र च यदुपरि योजनशतं मुक्तं तत्राध उपरि च दशयोजनरहितेऽप्रज्ञप्तिकादयोऽष्टाविति, तेषु च-अप्रज्ञप्तिकाविष्वष्टसु व्यन्तरनिकायेषु रुचकस्साधस्ताइक्षिणत उत्तरतश्च द्वयोर्द्वयोरिन्द्रयोर्भावात् षोडश इन्द्रा भवन्ति, एवं पिशाचादिष्वप्यष्टसु षोडश भवनपतिषु च दशसु विंशतिः, अत एव विंशतिर्भवनपतीन्द्राणां द्वात्रिंशतो व्यन्तरेन्द्राणां असङ्ख्यातत्वेऽपि चन्द्रार्काणां जातिमात्राश्रयणाद् द्वयोश्चन्द्रसूर्ययोज्योतिष्केन्द्रयोः दशानां च सौधर्मादिकल्पेन्द्राणां मीलने चतुःषष्टिरिन्द्रा इति ॥ ३१ ॥ ३२ ॥ ज्योतिष्कभेदानाह-'चंदे'त्यादि, चन्द्राः सूर्याः प्रहा: नक्षत्राणि तारकाश्चेत्येवं पञ्च ज्योतिष्कभेदा भवन्ति, तत्र चैके-मनुष्यक्षेत्रवर्तिनो ज्योतिष्काश्चला-मेरोः प्रादक्षिण्येन सर्वकालं भ्रमणशीलाः अपरे पुनर्ये मानुषोत्तरपर्वतात्परेण स्वयंभूरमणसमुद्रं यावद्वर्तन्ते ते सर्वेऽपि स्थिरा:-सदावस्थानस्वभावाः, अत एव घण्टाकारा अचलनधर्मकत्वेन घण्टावत् स्थानस्था एव तिष्ठन्तीत्यर्थः॥ ३३ ॥ वैमानिकभेदानाह-सोहमी त्यादिगाथाचतुष्कं, इह वैमानिका द्विविधा:-कल्पोपपन्नाः कल्पातीताश्च, तत्र कल्प:-आचारः, स चात्र इन्द्रसामानिकत्रायस्त्रिंशादिव्यवस्थारूपः तं प्रतिपन्नाः कल्पोपपन्नाः, ते च द्वादश, तद्यथा-सौधर्मदेवलोकनिवासिनः सौधर्माः ईशानदेवलोकनिवासिन ईशानाः एवं सर्वत्रापि भावनीयं, भवति च 'तास्थ्यात्तव्यपदेशों' यथा पञ्चालदेशनिवासिनः पाञ्चाला इति, यथोक्तरूपं कल्पमतीता:-अतिक्रान्ताः कल्पातीता:-अवेयका अनुत्तरविमानवासिनः, सर्वेषामपि तेषामहमिन्द्रत्वात् , तत्र लोकपुरुषस्य श्रीवाप्रदेशे भवानि विमानानि प्रैवेयकानि, तानि च नव, तद्यथा-सुदर्शनं १ सुप्रबुद्धं २ मनोरमं ३ विशालं ४ सर्वतोभद्रं ५ सुमनः ६ सौमनसं ७ प्रीतिकरं ८ आदित्यं ९ चेति, तथा न विद्यन्ते उत्तराणिप्रधानानि विमानानि येभ्यस्तान्यनुत्तराणि तानि च पञ्च, तद्यथा-विजयं वैजयन्तं जयन्तं अपराजितं सर्वार्थसिद्धं च, एतन्निवासिनो 1. मिलिताश्च वैमानिकाः षडिंशतिः। एतेषां मलभेदापेक्षया चतुर्विधानां भवनपत्यादिदेवानां 'ठिड'त्ति स्थिति रायुष्कलक्षणा प्रतिपाद्यते ॥ ३४ ॥ ३५ ॥ ३६॥ ३७॥ तामेवाह-'चमरे'त्यादि, इहासुरकुमारादयो दश भवनपतिनिकायाः, 222
SR No.022278
Book TitlePravachan Saroddhar
Original Sutra AuthorN/A
AuthorJaydarshanvijay
PublisherJinagna Prakashan
Publication Year1998
Total Pages310
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy