________________
दारिकादिसप्तकस्वभावत्वेन परिभुज्य २ परित्यक्तास्तावान् कालविशेषो बादरद्रव्यपुद्गलपरावर्तः, आहारकशरीरं चोत्कृष्टतोऽप्येकजीवस्य वारचतुष्टयमेव सम्भवति ततस्तस्य पुद्गलपरावर्त प्रत्यनुपयोगान्न ग्रहणं कृतमिति ॥४१॥ अथ मतान्तरेण द्रव्यपुद्गलपरावर्तमाह'अहवे'त्यादि, अथवा-अन्येषामाचार्याणां मतेनौदारिकवैक्रियतैजसकार्मणशरीरचतुष्टयरूपतया निःशेषद्रव्यग्रहणे-एकजीवेन सर्वलोकपुद्गलानां परिभुज्य २ परित्यजनेऽयं बादरः-स्थूलः पुद्गलपरावर्तो भवति, किंविशिष्टः ?-द्रव्यादिः, द्रव्यशब्द आदिर्यस्य पुद्गलपरावतस्य स द्रव्यादिः, द्रव्यपुद्गलपरावर्त इत्यर्थः ॥ ४२ ॥ सूक्ष्म द्रव्यपुद्गलपरावर्तमाह-'दो' इत्यादि, अथ द्रव्ये-द्रव्यविषयः सूक्ष्मः पुरलपरावर्तो भवति यथा औदारिकादिशरीराणामेकेन-अन्यतमेन शरीरेण एको जीवः संसारे परिभ्रमन् सर्वानपि पुद्गलान् स्पृष्टवापरिभुज्य २ मुश्चति, इयमत्र भावना-यावता कालेन सर्वेऽपि लोकाकाशभाविनः परमाणव औदारिकाद्यन्यतमैकविवक्षितशरीररूपतया परिभुज्य २ निष्ठां नीयन्ते तावान् कालविशेषः सूक्ष्मद्रव्यपुद्गलपरावर्तः, पुद्गलानां-परमाणूनामौदारिकादिरूपतया विवक्षितैकशरीररूपतया वा सामस्त्येन परावर्तः-परिणमनं यावति काले स तावान् कालः पुद्गलपरावतः, इदं च शब्दस्य व्युत्पत्तिनिमित्तं, अनेन च व्युत्पत्तिनिमित्तेन स्वैकार्थसमवायिप्रवृत्तिनिमित्तमनन्तोत्सर्पिण्यवसर्पिणीमानस्वरूपं लक्ष्यते, तेन क्षेत्रपुद्गलपरावर्चादौ पुद्गलपरावर्तनाभावेऽपि प्रवृत्तिनिमित्तस्यानन्तोत्सर्पिण्यवसर्पिणीमानस्वरूपस्य विद्यमानत्वात्पुद्गलपरावर्तशब्दः प्रवर्तमानो न विरुद्ध्यते, यथा गोशब्दः पूर्व गमने व्युत्पादितः, तेन च गमनेन व्युत्पत्तिनिमित्तेन स्खैकार्थसमवायिखुरककुदलाङ्कलसानादिमत्त्वरूपं प्रवृत्तिनिमित्चमुपलक्ष्यते, ततो गमनरहितेऽपि गोपिण्डे प्रवृत्तिनिमित्तसद्भावाद्गोशब्दः प्रवर्तते इति, 'अणुक्कमेणं नणु गणेज'त्ति एतांश्च पुद्गलान् अनुक्रमेण-विवक्षितैकशरीरस्पृष्टतारूपया परिपाट्या ननु-निश्चितं गणयेत्, इदमत्र तात्पर्य एतस्मिन् सूक्ष्मे द्रव्यपुद्गलपरावर्ते विवक्षितैकशरीरव्यतिरेकेणान्यशरीरतया ये परिभुज्य २ परित्यज्यन्ते ते न गण्यन्ते, किन्तु प्रभूतेऽपि काले गते सति ये च विवक्षितैकशरीररूपतया परिणम्यन्ते त एव परमाणवो गण्यन्त इति, प्रथमपक्षाभिप्रायेण तु औदारिकादिसप्तकमध्यादन्यतमेनैकेन केनचित्यूवॉक्तिरीत्या सर्वपुद्गलस्पर्शने सूक्ष्मपुद्गलपरावर्तो भवतीति ॥ ४३ ॥ अथ बादरक्षेत्रपुद्गलपरावर्तमाह-लोगे'त्यादि, लोकस्य-चतुर्दशरज्ज्वात्मकस्याकाशप्रदेशा-निर्विभागा नभोभागा यदा म्रियमाणेनात्र-जगति जीवेन स्पृष्टा-व्याप्ताः क्रमेण-तदनन्तरभावलक्षणेनोक्रमेण वा-अर्दवितर्दमरणाक्रान्तक्षेत्रप्रदेशरूपेण तदा क्षेत्रपुद्गलपरावर्तो भवेत् स्थूलो-बादरः, किमुक्तं भवति?-यावता कालेनैकेन जीवेन क्रमेण उत्क्रमेण वा यत्र तत्र म्रियमाणेन सर्वेऽपि लोकाकाशप्रदेशा मरणे संस्पृष्टाः क्रियन्ते स तावान् कालविशेषो बादरः क्षेत्रपुद्गलपरावर्तः॥४४॥ सम्प्रति सूक्ष्मक्षेत्रपुद्गलपरावर्तमाह-'जीवो' इत्यादिगाथाद्वयं, एकः कश्चिजन्तुरनन्तभवभ्रमणपरो यदा एकस्मिन् क्षेत्रप्रदेशेऽधिगते-प्राप्ते सति, तत्र स्थित इत्यर्थः, कल्पनया न परमार्थेन, असङ्ख्यातप्रदेशावगाढवाजीवस्य, म्रियते-प्राणान परित्यजतिपुनरपि तस्य-प्रथममरणस्पृष्टप्रदेशस्यानन्तरे-अव्यवहिते द्वितीये प्रदेशे यदि म्रियते पुनरप्यनन्तरे तृतीये प्रदेशे यदि म्रियते, एवं तर, तमयोगेन-अनन्तरानन्तरप्रदेशमरणलाभलक्षणेन सर्वस्मिन्नपि क्षेत्रे-लोकाकाशे मृतो भवति तदा सूक्ष्मः क्षेत्रपुद्गलपरावर्तो ज्ञेयः, अत्र च क्षेत्रप्रदेशान् अनुक्रमेणैव-प्रथमप्रदेशानुबद्धप्रदेशपरम्परापरिपाट्यैव गणयेत्, न पुनः पूर्वस्पृष्टान् व्यवहितान् वा प्रदेशान् गणयेत्, इयमत्र भावना-यद्यपि जीवस्यावगाहना जघन्याऽप्यसङ्ख्येयप्रदेशात्मिका भवति तथापि विवक्षिते कस्मिंश्चिद्देशे म्रियमाणस्य विवक्षितः कश्चिदेकः प्रदेशोऽवधिभूतो विवक्ष्यते, ततस्तस्मात्प्रदेशादन्यत्र प्रदेशान्तरे ये नभःप्रदेशा मरणेन व्याप्यन्ते ते न गण्यन्ते, किन्त्वनन्तेऽपि काले गते सति विवक्षितात्प्रदेशादनन्तरो यः प्रदेशो मरणेन व्याप्तो भवति स गण्यते, तस्मादप्यनन्तरो यः प्रदेशो मरणे व्याप्तः स गण्यते, एवमानन्तर्यपरम्परया यावता कालेन सर्वलोकाकाशप्रदेशा मरणेन स्पृष्टा भवन्ति तावान् कालविशेषः सूक्ष्मक्षेत्रपुद्गलपरावर्तः, अन्ये तु व्याचक्षते-येष्वाकाशप्रदेशेष्ववगाढो जीवो मृतस्ते सर्वेऽप्याकाशप्रदेशा गण्यन्ते, न पुनस्तन्मध्यवर्ती विवक्षितः कश्चिदेक एवाकाशप्रदेश इति ॥ ४५ ॥ ४६॥ अथ बादरं कालपुद्गलपरावर्तमाह-'ओसप्पी'त्यादि, अवसर्पिण्या उपलक्षणत्वादुत्सर्पिण्याश्च यावन्तः समयाः-परमसूक्ष्माः कालविभागास्ते यदा एकजीवेन निजमरणेन क्रमेणोत्क्रमेण वा स्पृष्टा भवन्ति तदा कालपुद्गलपरावतों भवेत् स्थूलः, अयमर्थः-यावता कालेनैको जीवः सर्वानप्यवसर्पिण्युत्सर्पिणीसमयान् क्रमेणोत्क्रमेण वा मरणेन व्याप्ताम् करोति तावान् कालविशेषो बादरः कालपुद्गलपरावर्तः ॥ ४७ ।। सूक्ष्मं कालपुद्गलपरावर्तमाह-'सुहुमो' इत्यादिगाथाद्वयं, सूक्ष्मः पुनः कालपुद्गलपरावर्तो भवति, तद्यथा-एकः कश्चिज्जीवोऽवसर्पिण्याः प्रथमे समये यदि मृतो भवति पुनरपि तस्यावसर्पिणीप्रथमसमयस्यानन्तरे द्वितीये समये यदि म्रियते, एवं तरतमयोगेन-अनन्तरानन्तरसमयमरणलाभलक्षणेन एतेषु सर्वेष्वप्यवसर्पिण्युत्सर्पिणीसम्बन्धिषु समयेषु यदि प्राणपरित्यागं करोति तदा सूक्ष्मः कालपुद्गलपरावर्तो भवति, इहापि समयान अनुक्रमेणैव-प्रथमसमयानुगतसमयपरम्परापरिपाट्यैव गणयेत्, न पुमः पूर्वस्पृष्टान् व्यवहितान् वा समयान् गणयेदिति, अत्रापीयं भावना-इहावसर्पिणीप्रथमसमये कश्चिज्जीवो मृत्युमुपगतः, ततो यदि समयोनविंशतिसागरोपमकोटीकोटीमिरतिक्रान्तामिभूयोऽपि स जन्तुरवसर्पिणीद्वितीयसमये म्रियते तदा स द्वितीयः समयो मरणस्पृष्टो गण्यते, शेषास्तु समया मरणस्पृष्टा अपि सन्तो न गण्यन्ते, यदि पुनस्तस्मिन्नवसर्पिणीद्वितीयसमये न म्रियते किन्तु समयान्तरे तदा सोऽपि न गृह्यते, किन्त्वनन्तास्ववसर्पिण्युत्सर्पिणीषु गतासु यदाऽवसर्पिणीद्वितीयसमये एव मरिष्यति तदा स समयो गण्यते, एवमानन्तर्यप्रकारेण यावता कालेन सर्वेऽप्युत्सर्पिण्यवसर्पिणीसमया मरणव्याता भवन्ति तावान् कालविशेष:
206