________________
द्वितीयायां गत्वाप्रत्यागतिका
गोमूत्रिका ३ पतङ्गवीथिः४ पेटा ५ अर्धपेटा ६ 'अभितरबाहिसंबुक'त्ति शम्बूकशब्दस्य प्रत्येकममिसम्बन्धादभ्यन्तरशम्बूका ७ बहिः शम्बूका ८ च ॥ ७४५॥ तत्रैताः क्रमेण व्याचष्टे-'ठाणे'त्यादि, प्रथमायां वीध्या कश्चिद्यतिः स्वस्थानात्-निजवसतेः ऋजुगत्या-प्राजलपथेन समश्रेणिव्यवस्थितगृहपको मिक्षा भ्रमन् याति यावत्पङ्केश्वरमं गृहं ततोऽनटन्-मिक्षामगृहन् ऋजुगत्या तथैव वलति-निवर्तते,
त्वाप्रत्यागतिकायां भ्रमन्-मिक्षां गृहन् समस्थितगृहपको प्रविश्य द्वितीयपको मिक्षमाण एव निःसरति-प्रत्यागच्छति, कोऽर्थः ?-उपाश्रयान्निर्गतः सन्नेकस्यां गृहपको मिक्षमाणः क्षेत्रपर्यन्तं गत्वा प्रत्यागच्छन् पुनर्द्वितीयायां गृहपको यस्यां मिक्षते सा गत्वाप्रत्यागतिका, गत्वा प्रत्यागतिर्यस्यामिति च विग्रहः, अन्ये तु ऋज्वीविपर्ययेण गत्वाप्रत्यागतिक व्याख्यानयन्तीति, तथा वामाद्-वामगृहादक्षिणगृहे दक्षिणगृहाच वामगृहे यस्यां मिक्षते सा गोमूत्रिका, गोः-बलीवर्दस्तस्य मूत्रणं गोमूत्रिका तद्वद्या सा तथा, इयं हि परस्परामिमुखगृहपतयोरेकस्यां गत्वा पुनरितरस्यां पुनस्तस्यां पुनरितरस्यां पुनस्तस्यामेवेत्येवं क्रमेण भावनीया, तथा अर्दविता-अनियता मिक्षा 'पतङ्गवीथिः' पतङ्ग:-शलभस्तस्य वीथिका-मार्गस्तद्वया सा तथा, पतङ्गगतिहिं अनियतकमा भवति एवं या अनाश्रितक्रमा सा पतङ्गवी-- थिकेति, तथा पेटा-वंशदलमयं वस्त्रादिस्थानं जनप्रतीतं, सा च चतुरस्रा भवति, ततश्च साधुरमिग्रहविशेषाद्यस्यां चर्यायां प्रामादिक्षेत्रं पेटावचतुरनं विभज्य मध्यवर्तीनि च गृहाणि मुक्त्वा चतसृष्वपि दिक्ष समश्रेण्या मिक्षा भ्रमति सा पेटेति भण्यते, तथा दिग्द्वयसम्बद्धयोहश्रेण्योभिक्षणेऽर्धपेटेति, पेटार्धसमानसंस्थानगृहश्रेणिमिक्षणेऽर्धपेटेति भावः, तथा शम्बूक:-शस्तद्वत् शङ्खभ्रमिवदित्यर्थः या वीथि: सा शम्बूका, इयं च द्वेधा-अभ्यन्तरशम्बूका बहिःशम्बूका च, तत्र यस्यां क्षेत्रमध्यभागात् शङ्कवृत्तत्वगत्या मिक्षा भ्रमन् बाहविनिःसरति-क्षेत्रबहिभोगमागच्छति सा अभ्यन्तरशम्बूका, तथा बहिःशम्बका भण्यते एतस्या-अभ्यन्तरशम्बूकाया विपरीतामक्ष्याविपरीतमिक्षणेन, यस्यां बहिर्भागात्तयैव मिक्षामटन् मध्यभागमायाति सा बहिःशम्बूकेति भावः, उक्तं च-'अभितरसंबुका बाहिरसं
य, तत्थ अम्भितरसंबुछाए संखनामिखेत्तोवमाए आगिइए अंतो आढवह बाहिरओ संनिया, इयरीए विवजओ"त्ति अन्ये तु अभ्यन्तरशम्बूकाबहिःशम्बूकयोः परस्परं लक्षणविपर्ययमाहुः, पञ्चाशकवृत्तौ तु "शम्बूकावृत्ता-शङ्कवद्वृत्ततागमनं, सा च द्विविधा-अदक्षिणतोऽप्रदक्षिणतश्चे"त्युक्तं, इह च गत्वाप्रत्यागतिकायां ऋज्याः प्रक्षेपात् शम्बूकाया एकत्वविवक्षणाच षडेव वीथयो ग्रन्थान्तरे प्रतिपादिता इति ९७ ॥ ७४९ ॥ [इति प्रथमखण्डमेकगाथासहितं ९ सहस्ररूपं ] इदानीं 'दस पायच्छित्ताईति अष्टनवतं द्वारमाह
आलोयण १पडिकमणे २ मीस ३ विवेगेतहा विउस्सग्गे। तव ६च्छेय ७मल ८ अणव ट्ठिया य ९पारंचिए चेव १० ॥७५०॥ आलोइबइ गुरुणो पुरओ कजेण हत्थसयगमणे १। समिइपमुहाण मिच्छाकरणे कीरइ पडिकमणं २ ॥७५१॥ सहाइएस रागाइविरयणं साहिलं गुरूण पुरो। दिज्जा मिच्छादुकडमेयं मीसं तु पच्छित्तं ३ ॥७५२ ॥ कजो अणेसणिज्जे गहिए असणाइए परिचाओ ४। कीरइ काउस्सग्गो दिढे दुस्सविणपमुहंमि ५ ॥७५३ ॥ निधिगयाई दिज्जइ पुढवाइविघट्टणे तवविसेसो ६ । तवदुहमस्स मुणिणो किलइ पज्जायवुच्छेओ ७॥७५४ ॥ पाणाइवायपमुहे पुणवयारोवणं विहेयई ८ ठाविजइ नवि एसुं कराइघायप्पदुट्ठमणो ९॥७५५ ॥ पारंचियमावजह सलिंगनिवभारियाइसेवाहिं । अवत्सलिंगधरणे बारसवरिसाइं सूरीणं १० ॥७५६ ॥ नवरं दसमावत्तीऍ नवममझावयाण पच्छित्तं। छम्मासे जाव तयं जहन्नमुकोसओ वरिसं ॥७५७ ॥ दस ता अणुसज्जती जा चउद्दसपुवि पढमसंघयणी। तेण परं मूलंतं दुप्पसहो
जाव चारित्ती॥७५८ ॥ 'आलोये'त्यादिगाथानवकं, आज-मर्यादायां सा च मर्यादा इयं-'जह बालो जंपंतो कजमकजं च उज्जु भणइ। तं तह आलोएज्जा मायामयविप्पमुक्कोय॥॥ यथा बालो जल्पन कार्यमकार्य च ऋजुकं भणति । तथा तदालोचयेत् मायामदविप्रमुक्तश्च ॥१॥] अनया मर्यादया 'लोच दर्शने' चुरादित्वात् णिच् लोचनं लोचना-प्रकटीकरणं आलोचना, गुरोः पुरतो वचसा प्रकाशनमिति भावः, यत्प्रायश्चित्तमालोचनामात्रेण शुद्ध्यति तदालोचनाईतया कारणे कार्योपचारादालोचना १, तथा प्रतिक्रमणं-दोषात्प्रतिनिवर्तनं अपुनःकरणतया मिथ्यादुष्कतप्रदानमित्यर्थः तदह प्रायश्चित्तमपि प्रतिक्रमणं, किमुक्तं भवति ?-यत् प्रायश्चित्तं मिध्यादुष्कृतमात्रेणैव शुद्धिमासादयति न च गुरुसमक्षमालोच्यते, यथा सहसाऽनुपयोगतः श्लेष्मादिप्रक्षेपादुपजातं प्रायश्चित्तं, तथाहि-सहसाऽनुपयुक्तेन यदि श्लेष्मादि प्रक्षिप्तं भवति न च हिंसादिकं दोषमापनस्तर्हि गुरुसमक्षमालोचनामन्तरेणापि मिध्यादुष्कृतप्रदानमात्रेण स शुद्ध्यति तत्प्रतिक्रमणाईत्वात्प्रतिक्रमणं २, यस्मिन् पुनः प्रतिसेविते प्रायश्चित्ते यदि गुरुसमक्षमालोचयति आलोच्य गुरुसन्दिष्टः प्रतिक्रामति पश्चाच्च मिध्यादुष्कृतमिति ब्रूते तदा शुक्ष्यति तदालोचनाप्रतिक्रमणलक्षणोभयाहत्वान्मिनं ३, तथा विवेकः-परित्यागः, यत्प्रायश्चित्तं विवेक एव कृते शुद्धिमासादयति नान्यथा, यथा आधाकर्मणि गृहीते, तद्विवेकाईत्वाद्विवेकः ४, तथा व्युत्सर्ग:-कायचेष्टानिरोधः, यद् व्युत्सर्गेण-कायचेष्टानिरोधोपयोगमात्रेण शुद्ध्यति प्रायश्चित्तं यथा दुःस्वप्नजनितं तत् व्युत्सर्गार्हत्वाद् व्युत्सर्गः ५, 'तवे'त्ति यस्मिन् प्रतिसेविते निर्विकृतिकादिषण्मासान्तं तपो दीयते तत्तपोऽहत्वात्तपः ६, यस्मिन् पुनरापतिते प्रायश्चित्ते सन्दूषितपूर्वपर्यायदेशावच्छेदः शेषपर्यायरक्षानिमित्तं दुष्टव्याधिसंदूषितशरीरैकदेशच्छे
145