________________
पडिलेहणाण गोसावराहउग्घाडपोरिसीस तिगं । तत्थ पढमा अणुग्गय सूरे पडिक्कमणकर - णाओ ।। ५९० ॥ मुहपोत्ति १ चोलपट्टो २ कप्पतिगं ३-४-५ दो निसिज्ज ६-७ रयहरणं ८ । संथारु ९ त्तरपट्टो १० दस पेहाऽणुग्गए सूरे ॥ ५९१ ॥ उवगरणच उद्दसगं पडिलेहिज्जइ दिणस्स पहरतिगे । उग्घाडपोरिसीए उ पत्तनिजोगपडिलेहा ॥ ५९२ ॥ पडिलेहिऊण उवहिं गोसंमि पमज्वणा उ वसहीए । अवरण्हे पुण पढमं पमज्जणा तयणु पडिलेहा ॥ ५९३ ॥ दोन्नि य पमज्जणाओ उभि वासासु तइय मज्झरहे । वसहिं बहुसो पमज्जण अइसंघट्टऽन्नहिं गच्छे ॥ ५९४ ॥
प्रतिदिवसं साधुजनस्य प्रतिलेखनानां त्रिकं - तिस्रः प्रतिलेखनाः कर्तव्या भवन्ति, तद्यथा - एका 'गोस'त्ति प्रभाते द्वितीया 'अवरहे ति अपराह्णे तृतीयप्रहरान्ते, तृतीया 'उग्घाडपोरिसित्ति उद्घाटपौरुष्यां समयभाषया पादोनप्रहरे, तत्र तासु तिसृषु प्रतिलेखनासु मध्ये प्रथमा तावत् प्रतिपाद्यते यथा प्रभाते प्रतिक्रमणकरणानन्तरं अनुगते सूरे-सूर्योद्रमादर्वागमीषां दशानां स्थानानां प्रतिलेखना भवति ॥५९० ॥ कानि पुनर्दश स्थानानीत्याह- मुखपोतिका १ चोलपट्टः २ कल्पत्रिकं - एक ऊर्णामयो द्वौ सूत्रमयौ ३-४-५ द्वे निषद्ये रजोहरणस्य, एका सूत्रमयी अभ्यन्तरनिषद्या ६ द्वितीया बाह्या पादप्रोञ्छनरूपा ७ रजोहरणं ८ संस्तारकः ९ उत्तरपट्टश्च १०, एतेषां दशानामपि स्थानानां 'प्रेक्षायां' प्रतिलेखनायां कृतायामुद्गच्छति सूरः कोऽर्थः ? - एतेषु दशसु स्थानेषु प्रत्युपेक्षितेषु सत्सु यथा सूर्य उद्गच्छति तथा प्रतिलेखना कर्तव्येति, अन्ये त्वेकादशं दण्डकमाहुः, यदुक्तं निशीथचूर्णौ – 'अन्ने भांति - एकारसमो दंडओत्ति, कल्पचूर्णावप्युक्तं'दंडओ एक्कारसमों'त्ति, शेषं च वसत्यादिकमुदिते एव सूर्ये प्रत्युपेक्ष्यते इति, इह च सूत्रे प्रत्युपेक्षणीयस्थानमानमेवोक्तं न तु प्रतिलेखनाक्रमः, तस्यागमेऽन्यथैवाभिधानात्, तदुक्तं निशीथचूण - " उवहिंमि पचूसे पढमं मुहपोत्ति तओ रयहरणं तओ अंतोनिसिज्जा तओ बाहिरनिसिज्जा चोलपट्टो कप्पउत्तरपट्टसंथारपट्टदंडगो य, एस कमो, अन्नहा उक्कमो, पुरिसेसु पुव्वं आयरियस्स, पच्छा परिन्ना तओ गिलाणसे हाइयाण, अन्नदा उक्कमो 'त्ति अत्र 'परिन्नित्ति अनशनिन उपधिं आचार्योपधिप्रतिलेखनानन्तरं प्रत्युपेक्षते, शेषं सुगमं ॥ ५९१ ।। अथ द्वितीयतृतीयप्रतिलेखनास्वरूपमाह - दिनस्य प्रहरत्रि के अतिक्रान्ते सति उपकरणचतुर्दशकं स्थविरकल्पिकसत्कौधिकस्वरूपं प्रत्युपेक्षते, तत्र प्रथमं मुखवस्त्रिका ततश्चोलपट्टः ततो गोच्छकः ततः पात्रप्रतिलेखनिका ततः पात्रबन्धः ततः पटलानि ततो रजखाणं ततः पात्रस्थापनं ततो मात्रकं ततः पतग्रहः ततो रजोहरणं ततः कल्पन्त्रिकमिति, उपलक्षणमेतत्, ततोऽन्योऽप्यौपमहिकोपधिः प्रत्युपेक्षणीय इति । तथा उद्घाटपौरुष्यां सप्तविधपात्रनिर्योगप्रत्युपेक्षा भवति, वत्रासने समुपविष्टः प्रथमं मुखवस्त्रिकां प्रत्युपेक्ष्य गोच्छकं प्रत्युपेक्षते ततः पटलानि ततः पात्रकेसरिकां ततः पात्रबन्धं ततो रजस्त्राणं ततः पात्रं ततः पात्रस्थापनमिति, प्रत्युपेक्षणविधिस्तु विस्तरभयान्न लिख्यते तत ओघनिर्युक्तिपञ्चवस्तुकादेः स्वयमेवावसेयः ॥ ५९२ ॥ अत्रैव विशेषमाह – गोसे - प्रत्युषसि मुखवत्रिकादिलक्षणं पूर्वोमुपधिं प्रत्युपेक्ष्य तदनु वसते : - यति निवासलक्षणाया उपयुक्तेन साधुना प्रमार्जना विधेया, अपराधे पुनः प्रथमं वसतेः प्रमार्जना पश्चात्प्रत्युपेक्षणा उपधेरिति ॥ ५९३ ॥ यत्रापि वसतेर्जीवसंसक्तिर्न भवति तत्रापि ऋतुबद्धे काले द्वे प्रमार्जने विधेये प्रत्युषसि अपराधे च, द्वौ वारौ वसतिरवश्यतया प्रमार्जनीयेति भावः 'वर्षासु' वर्षाकाले पुनस्तृतीयाऽपि वसतेः प्रमार्जना भवति, द्वे पूर्वोक्ते एव तृतीया तु मध्याह्ने भवति, तथा ऋतुबद्धे वर्षासु वा कुन्थुप्रभृतिभिः प्राणिभिः संसक्तौ सत्यां बहुशोऽपि वसतिं प्रमार्जयेत्, चशब्दो विकल्पप्रदर्शनार्थः, विकल्पञ्चायं-यदि संसक्ताऽपि वसतिः पूर्वोक्तप्रमार्जनाप्रमाणेनैवासंसक्ता भवति ततो नातिरिक्ता प्रमार्जना, नो चेचदा बहुशोऽपि प्रमार्जना कर्तव्या, अंथ बहुशो वसतेः प्रमार्जने प्राणिनामतिसङ्घट्टो भवति तदाऽन्यत्र - वसत्यन्तरे प्रामान्तरे वा गच्छंतीति ॥ ५९४ ॥ अथ गुप्तीराह
मणगुत्तिमाइयाओ गुत्तीओ तिन्नि हुंति नायव्वा । अकुसलनिवित्तिरूवा कुसलपवित्तिस्सरूवा य ।। ५९५ ।।
मनोगुत्यादयो– मनोगुप्तिवाग्गुप्तिकायगुप्तिलक्षणा गुप्तयस्तिस्रो भवन्ति ज्ञातव्याः, तासां स्वरूपमाह – 'अकुशल निवृत्तिरूपा' अकुशलानां -अशुभानां मनोवचनकायानां निवृत्तिः – निरोधस्तद्रूपाः 'कुशलप्रवृत्तिस्वरूपाश्च कुशलानां - शुभानां मनोवचनकायानां प्रवृत्ति:- व्यापारणं तत्स्वरूपाश्च ता इति, अयमभिप्रायः - इह मनोगुप्तिस्त्रिधा - आर्त्तरौद्रध्यानानुबन्धिकल्पनानिचयवियोग: प्रथमा, शास्त्रानुसारिणी परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपरिणतिर्द्वितीया, कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविनी स्वा'त्मारामता तृतीयेति, वाग्गुप्तिर्द्विभेदा-मुखनयन भ्रूविकाराङ्गुल्याच्छोटनोद्धूभावकासितद्दुकृतलोष्ठक्षेपणादीनामर्थसूचिकानां चेष्टानां परिहारेणाद्य मया न वक्तत्र्यमित्यभिग्रहकरणमेका वाग्गुप्तिः, चेष्टाविशेषेण हि निजप्रयोजनानि सूचयतो मौनकरणाभिप्रहो निष्फल एवेति, तथा वाचनप्रच्छनपरपृष्टार्थव्याकरणादिषु लोकागमाविरोधेन मुखपोतिकाच्छादितमुखकमलस्य भाषमाणस्यापि वाग्वृत्तेर्नियत्रणं द्वितीया वाग्गुप्तिः, आभ्यां भेदाभ्यां वाग्गुप्तेः सर्वथा वाग्निरोधः सम्यग्भाषणं च स्वरूपं प्रतिपादितं भवति, भाषासमितौ तु सम्यग्वाक्प्रवृत्तिरेवेति वाग्गुप्तिभाषासमित्योर्भेदः, यदाहुः – “समिओ नियमा गुत्तो गुत्तो समियत्तणंमि भयणिजो । कुसलवयमुदीरंतो जं वइगुत्तोवि समिओवि ॥ १ ॥” [ समितो नियमाद् गुप्तो गुप्तः समितत्वे भजनीयः । कुशलवच उदीरयन् यद् बचोगुप्तोऽपि समितोऽपि ॥ १ ॥ ]
111