________________
द्वात्रिंशद्विधा गणिसम्पदः
योग्यः परिणतवाचनः निर्यापयिता वाचनायाः निर्वहणे ( २० ) | अवग्रहः ईहापायौ धारणा मतिसम्पत् चतस्त्र इति (२४) ॥५४५॥ शक्ति पुरुषं क्षेत्रं वस्तु ज्ञात्वा प्रयुञ्जीत वादं (२८) । गणयोग्यं संसक्तं स्वाध्यायः शिक्षणं जानीयात् (३२) ॥५४६॥ )
१०५१
वृत्तिः - 'अट्ठविहे 'त्यादिगाथानवकं, गुणानां साधूनां वा गणः- समुदाय भूयानतिशयवान् वा यस्यास्ति स गणी - आचार्यस्तस्य सम्पत्-समृद्धिर्भावरूपा गणिसम्पत्, सा आचारादिभेदादष्टविधा, केवलमेकैकस्याश्चतुर्भेदत्वेन चतुर्भिर्गुणने द्वात्रिंशद्भेदाः, विनयश्चतुर्भेदस्तत्र प्रक्षिप्यते तत एते गुरो:- आचार्यस्य षट्त्रिंशद् गुणा भवन्ति ॥५४१॥
तत्राष्ट सम्पद इमाः - 'आयारे' त्यादि, आचारश्च श्रुतं च शरीरं चेत्येकवद्भावादाचारश्रुतशरीरं, तथा वचनं, प्राकृतत्वादेकारः, वाचना मतिः प्रयोगमतिः, एतेषु विषये सम्पत्, तथाहि - आचारसम्पत् १ श्रुतसम्पत् २ शरीरसम्पत् ३ वचनसम्पत् ४ वाचनासम्पत् ५ मतिसम्पत् ६ प्रयोगमतिसम्पत् ७ अष्टमी च सङ्ग्रहपरिज्ञासम्पत् ८, तत्र आचरणमाचारःअनुष्ठानं तद्विषया स एव वा सम्पद् - विभूतिस्तस्य वा सम्पत्-सम्पत्तिः प्राप्तिराचारसम्पत्, एवमग्रेऽपि व्युत्पत्त्यर्थो भावनीयः ॥५४२॥
सा चतुर्धा, यथा- चरणयुतो मदररहितोऽनियतवृत्तिरचञ्चलश्चेति, तत्र चरणं - चारित्रं व्रतश्रमणधर्मेत्यादिसप्ततिस्थानस्वरूपं तेन युतो - युक्तश्चरणयुतः, अन्यत्र 'संयमधुवयोगयुक्तते'त्येवमिदं पठ्यते, तत्राप्ययमेव परमार्थः, यतः संयमः - चारित्रं तस्मिन् ध्रुवःनित्यो योगः-समाधिस्तेन युक्तता, तत्र सततोपयुक्ततेत्यर्थः, तथा मदैः - जातिकुलतपःश्रुताद्युद्भवै रहितो मदरहितः, ग्रन्थान्तरे तु 'असंपग्गह' इति पठ्यते, तत्रापि स एवार्थः, समन्तात्प्रकर्षेण-जातिश्रुततपोरूपादिप्रकृष्टतालक्षणेनात्मनो ग्रहणं - अहमेव जातिमानित्यादिरूपेणावधारणं सम्प्रग्रहः न तथा असम्प्रग्रहो जात्याद्यनुत्सिक्तत्वमित्यर्थः, अनियतवृत्तिःग्रामादिष्वनियतविहारस्वरूपता, तथाऽचञ्चलो - वशीकृतेन्द्रियः, अन्यत्र तु 'वृद्धशीलता' इत्येवं पठ्यते, तत्र वृद्धशीलता - वपुषि मनसि च कामिनीमनोमोहने वयसि वर्तमानस्यापि निभृतस्वभावता निर्विकारतेति यावत्, यतः
यतः
"मनसि जरसाऽभिभूता जायन्ते यौवनेऽपि विद्वांसः । मूढधियः पुनरितरे भवन्ति वृद्धत्वभावेऽपि ॥ १ ॥”