________________
त्रिविधो वीर्याचारः
१०३७ धर्मकथां कथयति अहं भवतां कथां कथयिष्यामीति गुरुकथाछेदेन शिष्यस्याऽऽशातना २७ ॥१४६॥
'परिसं भित्त'त्ति इदानीं, तबाह - 'तह परिसं चिय भिंदइ तह किंचि भणइ जह न सा मिलइ' इति, गुरौ कथां कथयति शृण्वत्यां च प्रमुदितायां पर्षदि शिष्यो वदति-इयं भिक्षावेला भोजनवेला सूत्रपौरुषीवेला वेत्यादि, एवं पर्षद्भेदेन आशातना तस्य २८, इदानीं 'अणुट्ठियाए कहे त्ति तत्राऽऽह - 'ताए अणुट्ठियाए गुरुभणियं सवित्थरं भणइ' इति गुरुभिर्धर्मकथायां कृतायामनुत्थितायामेव तस्यां पर्षदि स्वस्य पाटवादिज्ञापनाय गुरुभणितमेवार्थं चर्वयित्वा पुनः पुनः सविस्तरं कथयतः शिष्यास्याऽऽशातना २९ ॥१४७।।
'संथारपायघट्टणे'त्ति इदानीं तत्राऽऽह - 'सेज्जं संथारं वेति गुरोः शय्यां संस्तारादिकं वा पादैर्घट्टयित्वाऽननुज्ञाप्य करैर्वा स्पृष्ट्वा न यः क्षमयति तस्याऽऽशातना, तथा चागमः - "संघट्टयित्ता पाएणं, तहा उवहिणामवि । खमेह अवराहं मे, वइज्ज न पुणत्तिय ॥१॥" इति [पादाभ्यां सङ्घट्योपधिमपि । क्षमयध्वं ममापराधं तथा वदेत् न पुनरिति ॥१॥] तत्र शय्या-सर्वाङ्गीणा संस्तारकस्तु सार्धहस्तद्वयप्रमाण इति ३० ॥१४८॥
अथ 'चिट्ठत्ति तत्राह - 'गुरुसेज्जसंथारगचिट्ठण निसीयण तुयट्टणेऽहऽवरा' इति गुरूणां शय्यायां संस्तारके वाऽवस्थाने निषीदने त्वग्वर्तने वा क्रियमाणेऽथाऽपरा शिष्यस्याऽऽशातना ३१ 'उच्चसमासणे यावित्ति तत्राह - 'गुरुउच्चसमासणचिट्ठणाइकरणेण दो चरिमा' इति, तत्र गुरोः पुरत उच्चे आसने उपवेशनादि कुर्वत आशातना ३२, एवं गुरोः पुरतः समे आसने उपवेशनादि विदधत आशातना ३३, अनेन गाथोत्तरार्धन चरमाऽऽशातनाद्वयं गृहीतमिति त्रयस्त्रिंशदाशातनाः ।१४९॥'
गुरुरेतासां त्रयस्त्रिंशद्विधानामाशातनानां वर्जनस्य योग्यो भवति । गुरुविषये एतास्त्रयस्त्रिंशद्विधा आशातना न करणीया इत्यर्थः ।
वीर्यं - उत्साहः, तद्विषयक आचार इति वीर्याचारः । यथाशक्ति ज्ञानाद्याचारेषु प्रवर्त्तनं वीर्याचारस्य लक्षणम् यदुक्तं दशवैकालिकसूत्रनिर्युक्तौ तद्वृत्तौ च -
'अणिगृहियबलविरियो परक्कमइ जो जहुत्तमाउत्तो। जुंजइ अ जहाथामं नायव्वो वीरियायारो ॥१८७॥