________________
द्वात्रिंशद्विधा वन्दनदोषाः
१००९ इत्यभिप्रायवान् यदा शीर्षेणाङ्गुल्या वा प्रदेशिनीलक्षणया आदिशब्दाद् ध्रप्रभृतिभिर्गुरुं प्रणिपतन्-वन्दमानस्तर्जयति तदा तर्जितं भवतीति १९ ॥१६६॥
विंशतितमं दोषमाह -
'वीसंभट्ठाण मिति विश्रम्भः-विश्वासस्तस्य स्थानमिदं वन्दनकं, एतस्मिन् यथावद्दीयमाने श्रावकादयो विश्वसन्तीत्यभिप्रायेणैव 'सब्भावजड्डे'त्ति सद्भावरहिते अन्तर्वासनाशून्ये वन्दमाने सति शिष्ये शठमेतद्वन्दनकं भवतीति, शठशब्दमेव पर्यायशब्दाचष्टे कपटमिति कैतवमिति च शठताऽपि चेति भवन्त्येकार्थाः २० ॥१६७।।
एकविंशतितमं दोषमाह -
'गणिवायग'त्ति गणिन् ! वाचक ! ज्येष्ठार्य ! किं त्वया वन्दितेनेत्यादि सोत्प्रासं हीलयित्वा यत्र वन्दते तद् हीलितवन्दनकमुच्यते २१ । द्वाविंशं दोषमाह - 'दरवंदिअंमित्ति ईषद् वन्दितेऽपि देशादिका विकथा यत्र करोति तद्विपरीकुञ्चितमिति २२ ॥१६८॥
त्रयोविंशं दोषमाह -
'अंतरिउत्ति बहुषु वन्दमानेषु साध्वादिना केनचिदन्तरितस्तमसि वा सान्धकारे प्रदेशे व्यवस्थितो मौनं विधाय उपविश्य वा आस्ते न तु वन्दते दृश्यमानस्तु वन्दते, एतद् दृष्टादृष्टं वन्दनकमभिधीयते २३ । चतुर्विंशं दोषमाह - 'सिंगं पुण मुद्धपासेहि'ति मूर्धशब्देनेह ललाटमुच्यते तस्य पाश्र्वी वामदक्षिणभागौ ताभ्यां यद्ददाति वन्दनं तत् शृङ्गमुच्यते, इदमुक्तं भवति - 'अहो कायं काय' इत्यावर्तान् कुर्वन् कराभ्यां न ललाटस्य मध्यदेशं स्पृशति, किन्तु ललाटस्य वामपाश्र्वं दक्षिणपार्वं वा स्पृशतीति, क्वचित् 'सिंगं पुण कुंभपासेहिति पाठो दृश्यते, तत्रापि कुम्भशब्देन ललाटमेव भण्यत इति, शेषं पूर्ववदिति २४ ॥१६९।।
इदानीं पञ्चविंशं गाथायाः पूर्वार्धेन करनामकं दोषं उत्तरार्धेन तु मोचनलक्षणं षड्विशं दोषमाह -
'करमिवे'ति करमिव राजदेयभागमिव मन्यते ददद्वन्दनकं आर्हतः करवन्दनकमिति २५ । गृहीतव्रताश्च वयं लौकिककरान्मुक्तास्तावत् न मुच्यामहे तु वन्दनककरस्याहतस्येति मोचनवन्दनकमिति २६ ॥१७०॥
सप्तविंशं दोषमाह -