SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ द्वात्रिंशद्विधा वन्दनदोषाः १००१ भविष्यति १६, प्रत्यनीकम् आहारादिकाले वन्दते १७, रुष्टं क्रोधाध्मातं वन्दते क्रोधाध्मातो वा १८, तर्जितं न कुप्यसि नापि प्रसीदसि काष्ठशिव इवेत्यादि तर्जयन्-निर्भर्त्सयन् वन्दते, अङ्गल्यादिभिर्वा तर्जयन् १९, शठं शाठ्येन विश्रम्भार्थं वन्दते, ग्लानादिव्यपदेशं वा कृत्वा न सम्यग् वदन्ते २०, हीलितं हे गणिन् ! वाचक ! किं भवता वन्दितेनेत्यादि हीलयित्वा वन्दते २१, तथा विपलिकुञ्चितम् अर्द्धवन्दित एव देशादिकथाः करोति २२, इति गाथार्थः ॥१२०९॥ दिट्ठमदिटुं च तहा, सिंगं च करमोअणं । आलिट्ठमणालिटुं, ऊणं उत्तरचूलियं ॥१२१०॥ (छाया- दृष्टमदृष्टं च तथा, शृङ्गं च करमोचनं । आश्लिष्टमनाश्लिष्टं, ऊनं उत्तरचूलिकम् ॥१२१०॥) वृत्तिः - दृष्टादृष्टं तमसि व्यवहितो वा न वन्दते २३, शृङ्गम् उत्तमाङ्गैकदेशेन वन्दते २४, करमोचनं करं मन्यमानो वन्दते न निर्जरा, 'तहा मोयणं नाम न अन्नहा मुक्खो, एएण पुण दिन्नेण मुच्चेमित्ति वंदणगं देइ' २५-२६, आश्लिष्टानाश्लिष्टमित्यत्र चतुर्भङ्गक:-रजोहरणं कराभ्यामाश्लिष्यति शिरश्च १ रजोहरणं न शिरः २ शिरो न रजोहरणं ३ न रजोहरणं नापि शिरः ४, अत्र प्रथमभङ्गः शोभनः शेषेषु प्रकृतवन्दनावतार: २७, ऊणं व्यञ्जनाभिलापावश्यकैरसम्पूर्णं वन्दते २८, उत्तरचूडं वन्दनं कृत्वा पश्चान्महता शब्देन मस्तकेन वन्द इति भणतीति गाथार्थः २९ ॥१२१०॥ मूयं च ढड्डरं चेव, चुडुलिं च अपच्छिमं । बत्तीसदोसपरिसुद्धं, किइकम्मं पउंजई ॥१२११॥ (छाया- मूकं च ढड्डरं चैव, चुटुलिं च अपश्चिमम् । द्वात्रिंशद्दोषपरिशुद्धं, कृतिकर्म प्रयुञ्जीत ॥१२११॥) वृत्तिः - मूकम् आलापकाननुच्चारयन् वन्दते ३० ढङ्करं महता शब्देनोच्चारयन् वन्दते ३१ 'चुडुली 'ति उल्कामिव पर्यन्ते गृहीत्वा रजोहरणं भ्रमयन् वन्दते ३२ अपश्चिमम् इदं चरममित्यर्थः, एते द्वात्रिंशद्दोषाः, एभिः परिशुद्धं कृतिकर्म कार्य, तथा चाह-द्वात्रिंशद्दोषपरिशुद्धं कृतिकर्म वन्दनं प्रयुञ्जीत कुर्यादिति गाथार्थः ॥१२११॥ यदि पुनरन्यतमदोषदुष्टमपि करोति ततो न तत्फलमासादयतीति, आह च -
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy