SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ९६३ सप्तविधाः शोधिगुणाः यत् जायते निःशल्यः, नियमात् आलोचयित्वा यतिसार्थः । न अन्यथा इति तस्मात्, निःशल्यत्वं गुणस्तस्याः ॥५०१४॥ न खलु शुध्यति सशल्यः, यथा भणितं शासने धुतरजसाम् । उद्धृतसर्वशल्यः, शुध्यति जीवो धुतक्लेशः ॥५०१५।। तत उद्धरन्ति गौरव-रहिता मूलं पुनर्भवलतानाम् । मिथ्यादर्शनशल्यं, मायाशल्यं निदानञ्च ॥५०१६॥ उद्धृतसर्वशल्यः, अलोचितनिन्दितो गुरुसकाशे । भवति अतिरेकलघुकः, अपहृतभरः इव भारवाहः ॥५०१७।। आलोचनागुणाः खलु, इति एवं वर्णिताः समासेन । अतः यथा दातव्या, तथा वक्ष्यामि तत्रेयं मर्यादा ॥५०१८॥) अत्र यद्यप्याजवशोधीति द्वौ गुणौ विवक्ष्य शोधिगुणा अष्टौ प्रतिपादिताः, तथापि गुरुगुणषट्त्रिंशत्षट्विशिकाकुलकस्यैकत्रिंशत्तमवृत्ते शोधिगुणाः सप्त प्रतिपादिता अतोऽस्माभिराजवशोधीति सम्मिल्यैक एव गुणो विवक्षितः । स्वोपज्ञटीकायां तु 'अज्जवं सोही' (आर्जवशोधी) इत्यस्य स्थाने 'अज्झवसोही' (अध्यात्मशुद्धिः) इत्युक्त्वा सप्त शोधिगुणाः प्रतिपादिताः । सर्वत्र भावार्थस्त्वेक एव । गुरुरेतान्सप्तविधान् शोधिगुणान् सम्यग् जानाति । इत्थं षट्त्रिंशद्गुणसमन्वितो गुरुर्जीवानां प्रायश्चित्तदानेन विशुद्धिं तनोतु ॥३१॥ इति त्रिंशत्तमी षट्त्रिशिका समाप्ता । किं सुरगिरिणो गरुयं, जलनिहिणो किं व हुज्ज गंभीरं । किं गयणाओ विसालं, को य अहिंसा समो धम्मो ॥ મેરુપર્વત કરતા વધુ ઊંચું શું છે? સમુદ્ર કરવા વધુ ગંભીર શું છે? આકાશ કરતા વિશાળ શું છે? અહિંસાની સમાન કયો ધર્મ છે?
SR No.022277
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 03
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages402
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy