________________
षोडशविधाः कषायाः
४९३ यः कथमप्युदयप्राप्तोऽपि सत्वरमेव व्यावर्तते स सज्वलनः क्रोधोऽभिधीयते १। रेणुराजिसदृशः प्रत्याख्यानावरणः क्रोधः, अयं हि सज्वलनक्रोधापेक्षया तीव्रत्वाद् रेणुमध्यविहितरेखावत् चिरेण निवर्तत इति भावः २। पृथिवीराजिसदृशस्त्वप्रत्याख्यानावरणः, यथा स्फुटितपृथिवीसम्बन्धिनी राजी कचवरादिभिः पूरिता कष्टेनापनीयते, एवमेषोऽपि प्रत्याख्यानावरणापेक्षया कष्टेन निवर्तत इति भावः ३। विदलितपर्वतराजिसदृशः पुनरनन्तानुबन्धी क्रोधः, कथमपि निवर्तयितुमशक्य इत्यर्थः ४। उक्तश्चतुविधः क्रोधः । ___इदानीं मानोऽभिधीयते - तत्र तिनिसलतोपमः सज्वलनो मानः, यथा तिनिश:वनस्पतिविशेषस्तत्सम्बन्धिनी लता सुखेनैव नमति, एवं यस्य मानस्योदये जीवः स्वाग्रहं मुक्त्वा सुखेनैव नमति स सज्वलनमानः १॥ यथा स्तब्धं किमपि काष्ठमग्निखेदादिबहूपायैः कष्टेन नमति, एवं यस्य मानस्योदये जीवोऽपि कष्टेन नमति स काष्ठोपमः प्रत्याख्यानावरणो मानः २। यथाऽस्थि-हड्डे बहुतरैरुपायैरतितरां महता कष्टेन नमति, एवं यस्य मानस्योदये जीवोऽप्यतितरां महता कष्टेन नमति सोऽस्थ्युपमोऽप्रत्याख्यानावरणो मानः ३। शिलायां घटितः शैलः शैलश्चासौ स्तम्भश्च शैलस्तम्भस्तदुपमस्त्वनन्तानुबन्धी मानः, कथमप्यनमनीय इत्यर्थः ४ ॥१९॥ उक्तश्चतुर्विधो मानः । अथ मायालोभौ व्याख्यानयन्नाह -
मायाऽवलेहिगोमुत्तिमिढसिंगघणवंसिमूलसमा ।
लोहो हलिदखंजणकद्दमकिमिरागसामाणो ॥२०॥ (छाया- मायाऽवलेखिकागोमूत्रिकामेण्ढशृङ्गघनवंशीमूलसमा ।
___ लोभो हरिद्राखञ्जनकर्दमकृमिरागसमानः ॥२०॥) वृत्तिः - मायाऽवलेखिकासमा सञ्चलनी, धनुरादीनामुल्लिख्यमानानां याऽवलेखिका वक्रत्वग्रूपा पतति, यथाऽसौ कोमलत्वात् सुखेनैव प्राञ्जलीक्रियते, एवं यस्या उदये समुत्पन्नाऽपि हृदये कुटिलता सुखेनैव निवर्तते सा सज्वलनी माया । गौः-बलीवर्दस्तस्य मार्गे गच्छतो वक्रतया पतिता मूत्रधारा गोमूत्रिकाऽभिधीयते, यथाऽसौ शुष्का पवनादिभिः किमपि कष्टेन नीयते, एवं यज्जनिता कुटिलता कष्टेनापगच्छति सा गोमूत्रिकासमा प्रत्याख्यानावरणी माया २। एवं मेषशृङ्गसमायामप्यप्रत्याख्यानावरणमायायां भावना कार्या, नवरमेषा कष्टतरनिवर्तनीया ३। घनवंशीमूलसमा त्वनन्तानुबन्धिनी माया, यथा निबिडवंशीमूलस्य कुटिलता किल वह्निनाऽपि न दह्यते, एवं यज्जनिता मनःकुटिलता कथमपि न