SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ ७८५ अवसनशबरीव करौ करोति पुरः ५ कुलवधू इव नामयति शिरः ६ । विस्तारयति मेलयति वा द्वावपि पादौ निगडित इव ७ ॥२॥ सप्तदशविधानि मरणानि लम्बोत्तरं च भवति जान्वधो नाभ्युपरि वा पट्टः ८ । पट्टेन छादयति स्तनौ मशकादिरक्षार्थं वा अज्ञाता ९ ॥३॥ बाह्या उद्धिः मेलयति पार्णी प्रसारयति पुरः पादौ । पाष्णिप्रसारणाङ्गुष्ठमीलने अभ्यन्तरा उद्धिः १० ॥४॥ प्रावृणोति संयतीव ११ पुरतः खलिन इव धारयति रजोहरणम् १२ । चलचित्तवायस इव चक्षुः विक्षिपति दिग्विदिक्षु १३ ॥५॥ षट्पदिकाभयात् पट्टं करोति कपित्थमिव १४ कम्पते च शीर्षम् । यक्षगृहीत इव १५ मूक इव हूहूयति छेदनादिषु १६ ॥६॥ अङ्गुलिभ्रुवौ चालयति आलापकगणनयोगस्थापनार्थम् १७ । बुडुबुड्डुति अथवा सुरा इव १८ वानर इव चालयति ओष्ठौ १९ ॥७॥ इह लम्बोत्तरः १ स्तनः २ संयती ३ इति दोषा न भवन्ति श्रमणीनाम् । लम्बोत्तरः स्तनः २ संयती ३ वधू च ४ दोषा न श्राद्धीनाम् ॥८॥ खलिनकपित्थद्विकं पुनरगीतशैक्षादिकानां सम्भवति । सम्भवति गृहस्थानामपि कदाचित् एकत्वभावे ॥ ९ ॥ ) गुरुरेतानेकोनविंशतिं कायोत्सर्गदोषान् वर्जयति । मरणं - आयुः क्षयरूपं तस्य विधिः- विभाग इति मरणविधिः । स सप्तदशभेदभिन्नः । तद्यथा १ आवीचिमरणं २ अवधिमरणं, ३ आत्यन्तिकमरणं, ४ वलन्मरणं, ५ वशार्त्तमरणं, ६ अन्तः शल्यमरणं, ७ तद्भवमरणं, ८ बालमरणं, ९ पण्डितमरणं, १० बालपण्डितमरणं, ११ छद्मस्थमरणं, १२ के वलिमरणं, १३ वैहायसमरणं, १४ गृध्रपृष्ठमरणं, १५ भक्तपरिज्ञामरणं, १६ इङ्गिनीमरणं, १७ पादपोपगमनमरणञ्च । यदाह उत्तराध्ययनसूत्रनिर्युक्तौ तद्वृत्तौ च - 'आवीचि ओहि अंतिय वलायमरणं वसट्टमरणं च । अंतोसलं तब्भव बालं तह पंडियं मीसं ॥ २१२ ॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy