________________
चतुर्विधा अभिग्रहाः
ओसक्कण अभिसक्कण, परंमुहोऽलंकिओ व इयरोऽवि । भावऽण्णयरेण जुओ, अह भावाभिग्गहो नाम ॥३०४॥
(छाया- अवष्वष्कन् अभिष्वष्कन्, पराङ्मुखोऽलङ्कृतः वा इतरोऽपि । भावान्यतरेण युतः, अथ भावाभिग्रहो नाम ||३०४||
वृत्तिः सः अपसरन् अभिसरन् पराङ्मुखोऽलङ्कृतः कटकादिना इतरोऽपि अनलङ्कृतो वाऽपि भावेनान्यतरेण युक्तः समेतो यावान् कश्चिद् अथ अयं भावाभिग्रहो नामेति गाथार्थः ॥ ३०४||
-
श्रीवीरविभुनाऽपि छद्मस्थदशायां विहरमाणेन चत्वारोऽभिग्रहा गृहीताः । यदुक्तमावश्यकनिर्युक्तिवृत्तौ श्रीहरिभद्रसूरिभिः -
७४५
'तत्थ सामी पोसबहुलपाडिवए इमं एयारूवं अभिग्गहं अभिगिण्हड़ चउव्विहं - दव्वओ खेत्तओ कालओ भावओ, दव्वओ कुम्मासे सुप्पकोणेणं, खेत्तओ एलुगं विक्खंभइत्ता, कालओ नियत्तेसु भिक्खायरेसु, भावतो जहा रायधूया दासत्तणं पत्ता नियलबद्धा मुंडियसिरा रोवमाणी अट्ठमभत्तिया, एवं कप्पति सेसं न कप्पति, एवं तू कोसंबी अच्छति ।' ( - ५१८ तमगाथावृत्तिः )
(छाया- तत्र स्वामी पौषकृष्णप्रतिपदि एनं एतद्रूपं अभिग्रहं अभिगृह्णाति चतुर्विधं - द्रव्यतः क्षेत्रतः कालतो भावतः, द्रव्यतः कुल्माषान् सूर्पकोणेन, क्षेत्रत देहलीं विष्कभ्य, कालतो निवृत्तेषु भिक्षाचरेषु, भावतो यथा राजदुहिता दासत्वं प्राप्ता निगडबद्धा मुण्डितशिरा रुदती अष्टमभक्तिका, एवं कल्पते शेषं न कल्पते, एवं गृहीत्वा कौशाम्ब्यां आस्ते ।)
गाथासहस्त्र्यामप्युक्तम् -
'पृथ्वीनाथसुता भुजिष्यचरिता हीञ्जीरिता मुण्डिता, क्षुत्क्षामा रुदती विधाय पदयोरन्तर्गतां देहलीम् । कुल्माषान् प्रहरद्वयव्यपगमे मे सूर्यकोणेन चेद्, दद्यात्पारणकं तदा भगवतः सोऽयं महाभिग्रहः ॥ ७६४ ॥ '
गुरुरेतच्चतुर्विधाभिग्रहग्रहणपालनपरायणो भवति । इत्येवं षट्त्रिंशद्गुणनिधानभृद्गुरुर्विजयताम् ॥२०॥
इत्येकोनविंशतितमी षट्त्रिशिका सम्पूर्णतामिता ।