________________
अष्टविधा योगदृष्टयः
४२३ वृत्तिः - इयं च अनन्तरोदितलक्षणा दृष्टिः । आवरणापायभेदाद् आवरणापगमभेदेन परिस्थूरनीत्या अष्टविधा स्मृता पूर्वाचार्यैः सामान्येन सूक्ष्मेक्षिकामनादृत्य । विशेषास्तुभेदाः पुनः सदृष्टे यांसोऽतिबहवः सूक्ष्मभेदतोऽनन्तभेदत्वाद्दर्शनादीनां मिथः षट्स्थानपतितत्वाभिधानादिति ॥१८॥ इह च दृष्टिसमुच्चये -
प्रतिपातयुताश्चाद्याश्चतस्रो नोत्तरास्तथा ।
सापाया अपि चैतास्ताः प्रतिपातेन नेतराः ॥१९॥ वृत्तिः - प्रतिपातयुता-भ्रंशोपेताः । आद्याश्चतस्रो-दृष्टयो मित्रादिरूपाः एता अपि च प्रतिपातयुता अपि तथाकर्मवैचित्र्यात्, न तु प्रतिपातयुता एव, ताभ्यस्तदुत्तरभावादिति । नोत्तरास्तथा-न स्थिराधास्तेन प्रकारेण प्रतिपातयुताः । यत एवं सापाया अपिदुर्गतिहेतुत्वेन, एतास्ता-एता एव । कथमित्याह प्रतिपातेन भ्रंशेन, नेतरा-न स्थिराद्याः सापाया इति । आह-कथं श्रेणिकादीनामेतदप्रतिपातादपायः ? उच्यते-एतदभावोपात्तकर्मसामर्थ्येन । अत एवोक्तं प्रतिपातेन तु सम्भवमात्रमधिकृत्य सापाया अपि, तथापि प्रायोवृत्तिविषयत्वात्सूत्रस्यैवमुपन्यासः । अथवा सदृष्ट्यघाते सत्यपायोऽप्यनपाय एव वज्रतन्दुलवत्पाकेन, तदाशयस्य कायदुःखभावेऽपि विक्रियानुपपत्तेरित्येवमुपन्यासः । योगाचार्या एवात्र प्रमाणमिति । अतः प्रतिपातेन नेतरा इति स्थितम् ॥१९॥ इदानीं प्रतिदृष्टि साकल्येनाऽङ्गयोजनामुपदर्शयन्नाह -
मित्रायां दर्शनं मन्दं, यम इच्छादिकस्तथा।
अखेदो देवकार्यादावद्वेषश्चापरत्र तु ॥२१॥ वृत्तिः - मित्रायां दृष्टौ दर्शनं मन्द-स्वल्पो बोधः, तृणाग्निकणोद्योतेन सदृशः यमःअहिंसादिलक्षणः इच्छादिकस्तथा यथोक्तं – 'अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः।' [पा० यो० सू० २-३०] । एते च 'इच्छाप्रवृत्तिस्थैर्यसिद्धिभेदा' इति वक्ष्यति । अखेदो देवकार्यादौ आदिशब्दाद्गुरुकार्यादिपरिग्रहः, तथातथोपनत एतस्मिंस्तथापरितोषान्न खेदोऽत्र अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभावेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषश्चामत्सरश्च अपरत्र त्वदेवकार्यादौ, तथा तत्त्ववेदितया मात्सर्यवीर्यबीजभावेऽपि तद्भावाङ्करानुदयात्तत्त्वानुष्ठानमधिकृत्य कर्मण्याशयः । अतोऽस्यापरत्र न चिन्ता, तद्भावेऽपि करुणांशबीजस्यैवेषत्स्फुरणमिति ॥२१॥