SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ द्वादश भिक्षुप्रतिमाः ६५१ तथा आद्यद्वयमेकत्रैव वर्षे तृतीयचतुर्यो चैकैकस्मिन् वर्षे अन्यासां तु तिसृणामन्यत्र वर्षे प्रतिकर्म अन्यत्र च प्रतिपत्तिः, तदेवं नवभिर्वराद्याः सप्त समाप्यन्ते इति, अथ तस्य कियान् श्रुताधिगमो भवतीति ?, आह-यावत्पूर्वाणि दशेति प्रतीतं असम्पूर्णानि-किञ्चिदूनानि, सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वाद्धर्मदेशनया भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमादिकल्पं न प्रतिपद्यते, भवेत्-स्यात् श्रुताधिगम इति योगः, उत्कृष्टश्चायं, जघन्यस्य वक्ष्यमाणत्वात्, अथ जघन्यमेवाह-नवमस्य-पूर्वस्य प्रत्याख्याननामधेयस्य तृतीयवस्तु - आचाराख्यं तद्भागविशेषं यावदिति वर्तते भवति-स्यात् जघन्यः-अल्पीयान् श्रुताधिगमःश्रुतज्ञानं सूत्रतोऽर्थतश्च, एतच्छुतविकलो हि निरतिशयज्ञानत्वात् कालादि न जानातीति ॥५॥ व्युत्सृष्टः परिकर्माभावेन त्यक्तो ममत्वत्यागेन देहः - कायो येन स तथा, यतः - 'अण्णो देहाउ अहं नाणत्तं जस्स एवमुवलद्धं । सो किंचि आहिरिक्कं न कुणइ देहस्स भंगेऽवि ॥१॥' (छाया- अन्यो देहादहं नानात्वं यस्य एवमुपलब्धं । स किञ्चित्प्रतीकारं न करोति देहस्य भङ्गेऽपि ॥१॥) आहिरिक्कंति-प्रतीकारं, उपसर्गसहो - दिव्याधुपद्रवसोढा यथैव-यद्वदेव जिनकल्पी - जिनकल्पिकः, तद्वदुपसर्गसह इत्यर्थः, एषणा-पिण्डग्रहणप्रकारः, सा च सप्तविधा, तद्यथा - 'संसट्ठ १ मसंसट्ठा २ उद्धड ३ तह अप्पलेवडा ४ चेव । उग्गहिया ५ पग्गहिया ६ उज्झियधम्मा ७ य सत्तमिया ॥७३९॥' (प्र.सारोद्धारः) (छाया- संसृष्टा १ असंसृष्टा २ उद्धृता ३ तथा अल्पलेपकृता ४ एव । उद्गृहीता ५ प्रगृहीता ६ उज्झितधर्मा ७ च सप्तमिका ॥७३९॥) तत्रासंसृष्टा हस्तमात्राभ्यां चिन्त्या 'असंसटे हत्थे असंसटे मत्ते, अखरंटियत्ति वुत्तं भवइ' एवं गृह्णतः प्रथमा भवति, गाथाभङ्गभयाच्च विपर्ययनिर्देशः, संसृष्टा ताभ्यामेव चिन्त्या 'संसटे हत्थे संसटे मत्ते, खरंटियत्ति वुत्तं होइ' एवं गृह्णतो द्वितीया, उद्धृता नाम पाकस्थानाद् यत् स्थाल्यादौ स्वयोगेन भोजनजातमुद्धृतं तत एव गृह्णतस्तृतीया, अल्पलेपा नाम अल्पशब्दोऽभाववाचकः निर्लेपं पृथुकादि गृह्णत इत्यर्थः चतुर्थी, अवगृहीता नाम भोजनकाले भोक्तुकामाय शरावादिना यदुपहृतं भोजनजातं तत एव गृह्णतः पञ्चमी, प्रगृहीता नाम भोजनवेलायां भोक्तुकामाय दातुमभ्युद्यतेन भोक्त्रा वा यत्करादिना प्रगृहीतं तद्गृह्णतः षष्ठी,
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy