SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ६४८ द्वादश भिक्षुप्रतिमाः गच्छे च्चिय णिम्माओ जा पुव्वा दस भवे असंपुण्णा। णवमस्स तइयवत्थू होइ जहण्णो सुयाहिगमो ॥५॥ वोसचत्तदेहो उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहीया भत्तं च अलेवडं तस्स ॥६॥ (छाया- प्रतिपद्यते एताः संहननधृतियुतो महासत्त्वः । प्रतिमा भावितात्मा सम्यग् गुरुणा अनुज्ञातः ॥४॥ गच्छे एव निर्मातः यावत् पूर्वाणि दश भवेयुः असम्पूर्णानि । नवमस्य तृतीयवस्तु भवति जघन्यः श्रुताधिगमः ॥५॥ व्युत्सृष्टत्यक्तदेह उपसर्गसहो यथैव जिनकल्पी । एषणा अभिगृहीता भक्तं च अलेपकृतं तस्य ॥६॥) वृत्तिः - 'पडि' 'गच्छे' 'वोसे'त्यादि, प्रतिपद्यते - अभ्युपगच्छति एता अनन्तरोक्ताः संहननधृतियुतः, तत्र संहननं वज्रर्षभनाराचादेराद्यत्रयस्यान्यतरत्, एतद्युक्तो ह्यत्यन्तं परीषहसहनसमर्थो भवति, धृतिः-चित्तस्वास्थ्यं तद्युक्तश्च रत्यरतिभ्यां न बाध्यते, महासत्त्वःसात्त्विकः, स ह्यनुलोमप्रतिलोमोपसर्गेषु हर्षविषादौ न गच्छति, प्रतिमा उक्तनिरुक्ताः भावितात्मा-सद्भावभावनाभावितचित्तः प्रतिमानुष्ठानेन वा भावितात्मा, तद्भावना च तुलनापञ्चकेन स्यात्, तद्यथा - 'तवेण सत्तेण सुत्तेण, एगत्तेण बलेण य । तुलणा पंचहा वुत्ता, पडिमं पडिवज्जओ ॥१॥ (छाया- तपसा सत्त्वेन सूत्रेण, एकत्वेन बलेन च । तुलना पञ्चधा उक्ता, प्रतिमा प्रतिपद्यमानस्य ॥१॥) तत्र तपस्तुलना चतुर्थादितपांसि करोति, यदाह - 'चउभत्तेहिं जइउं छठेहिं अट्ठमेहिं दसमेहि । बारसचोइसमेहि य धीरावि इमं तुर्लितऽप्पं ॥१॥ एक्केक्कं ताव तवं करेइ जह तेण कीरमाणेणं । हाणी न होइ जइयावि होइ छम्मासुवस्सग्गे ॥२॥' (छाया- चतुर्भक्तैः जित्वा षष्ठैः अष्टमैः दशमैः । द्वादशचतुर्दशैश्च धीरा अपि इमां तोलयन्ति आत्मानम् ॥१॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy