SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ चतुर्दशविधान्युपकरणानि ६३९ विगिञ्चना चतुर्थ इति गाथार्थः ॥१४२६॥ ___ 'उस्सग्गेणवि सुज्झइ' कायोत्सर्गेणापि शुध्यति अतिचारः कश्चित्, कश्चित् तपसा पृथिव्यादिसङ्घट्टनादिजन्यो निर्विगतिकादिना षण्मासान्तेन, तेनाप्यशुध्यमानस्तथाभूतं गुरुतरं छेदविशेषा विशोधयन्तीति गाथार्थः ॥१४२७॥' । गुरुर्दशविधस्य प्रायश्चित्तस्य दाने कुशलप्रज्ञो भवति । उपक्रियते साधुरनेनेत्युपकरणं-उपधिरित्यर्थः । स्थविरकल्पिकसाधोरुपकरणानि चतुर्दशविधानि । तद्यथा - १ मुखवस्त्रिका, २ रजोहरणं, ३-४-५ त्रयः कल्पाः , ६ मात्रकं, ७ चोलपट्टकः, ८ पात्रं, ९ पात्रबन्धः, १० पात्रस्थापनं, ११ पात्रकेसरिका, १२ पटलानि, १३ रजस्त्राणं, १४ गोच्छकश्च । उक्तञ्च पञ्चवस्तुके तद्वृत्तौ च - 'पत्तं पत्ताबंधो, पायट्ठवणं च पायकेसरिआ। पडलाइं रयत्ताणं, च गोच्छओ पायणिज्जोगो ॥७७२॥ (छाया- पात्रं पात्रबन्धः, पात्रस्थापनं च पात्रकेसरिका । पटलानि रजस्त्राणं, च गोच्छकः पात्रनिर्योगः ॥७७२।।) वृत्तिः - पात्रं पात्रबन्धः पात्रस्थापनञ्च पात्रकेसरिका पटलानि रजस्त्राणं च गोच्छकः पात्रनिर्योगः, एतेषां स्वरूपं प्रमाणाधिकारे वक्ष्याम इति गाथार्थः ॥७७२॥ तिण्णेव य पच्छागा, रयहरणं चेव होइ मुहपोत्ती । एसो दुवालसविहो, उवही जिणकप्पियाणं तु ॥७७३॥ (छाया- त्रय एव प्रच्छादकाः, रजोहरणं चैव भवति मुखपोत्ती । एष द्वादशविधः, उपधिः जिनकल्पिकानां तु ॥७७३||) वृत्तिः - त्रय एव प्रच्छादकाः - कल्पा इत्यर्थः, रजोहरणं चैव भवति मुहपोत्ती - मुखवस्त्रिका, एष द्वादशविध उपधिः अनन्तरोदितः जिनकल्पिकानां भवतीति गाथार्थः ॥७७३॥ स्थविरकल्पिकानधिकृत्याह - एए चेव दुवालस, मत्तग अइरेग चोलपट्टो अ। एसो अ चोद्दसविहो, उवही पुण थेरकप्पंमि ॥७७९॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy