________________
द्वादश श्रावकव्रतानि
५९५
च । तत्र द्विपदादेर्वस्तुनः क्षेत्रादौ सुन्यस्तदुर्न्यस्तविस्मृतस्य स्वामिना अदत्तस्य चौर्यबुद्ध्या ग्रहणं सचित्तादत्तादानं तथा वस्त्रकनकादेरचित्तादत्तादानमिति ॥२६५॥
भेएण लवणघोडगसुवन्नरुप्पाइयं अणेगविहं । वज्जणमिमस्स सम्मं पुव्वुत्तेणेव विहिणा उ ॥२६६॥
(छाया- भेदेन लवणघोटकसुवर्णरूप्यादिकमनेकविधम् । वर्जनमस्य सम्यक् पूर्वोक्तेनैव विधिना तु ॥ २६६॥)
वृत्तिः - भेदेन विशेषेणादत्तादानं लवणघोटकरूप्यसुवर्णाद्यनेकविधमनेकप्रकारं लवणघोटकग्रहणात्सचित्तपरिग्रहः रूप्यसुवर्णग्रहणादचित्तपरिग्रह इति वर्जनमस्यादत्तादानस्य सम्यक् पूर्वोक्तेन विधिना 'उपयुक्तो गुरुमूले' (१०८) इत्यादिनेति ॥२६६॥
उक्तं तृतीयाणुव्रतं साम्प्रतं चतुर्थमाह -
परदारपरिच्चाओ सदारसंतोस मो वि य चउत्थं । दुविहं परदारं खलु उरालवेडव्विभेएणं ॥ २७० ॥ (छाया- परदारपरित्यागः स्वदारसन्तोषोऽपि च चतुर्थम् । द्विविधं परदारं खलु औदारिकवैक्रियभेदेन ॥२७०॥)
वृत्ति: - परदारपरित्यागः परकलत्रपरिहारः न वेश्यापरित्यागः स्वदारसन्तोषश्च स्वकलत्रसेवनमेव न वेश्यागमनमपि चतुर्थमित्येतच्चतुर्थमणुव्रतम् । परदारमपि द्विविधमौदारिकवैक्रियभेदेन औदारिकं स्त्र्यादिषु वैक्रियं विद्याधर्यादिष्विति ॥२७०॥
वज्जणमिह पुव्वुत्तं पावमिणं जिणवरेहिं पन्नत्तं । रागाई नियाणं भवपायवबीयभूयाणं ॥ २७१ ॥
(छाया - वर्जनमिह पूर्वोक्तं पापमिदं जिनवरैः प्रज्ञप्तम् । रागादीनां निदानं भवपादपबीजभूतानाम् ॥२७१॥)
वृत्ति: - वर्जनमिह पूर्वोक्तं 'उपयुक्त' इत्यादिना ग्रन्थेन (१०८ गाथा) किमेतद्वर्ण्यते इत्याशङ्क्याह पापमिदं परदारासेवनं जिनवरैः प्रज्ञप्तं तीर्थकरगणधरैः प्ररूपितमिति किंविशिष्टं रागादीनां निदानं कारणं किंविशिष्टानां भवपादपबीजभूतानां रागादीनामिति ॥२७१॥
उक्तं चतुर्थमणुव्रतमधुना पञ्चममाह