SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ४१६ अष्टविधानि कर्माणि (छाया- इह ज्ञानदर्शनावरणवेद्यमोहायुर्नामगोत्राणि । विघ्नं च पञ्चनवद्विअष्टाविंशतिचतुस्त्रिशतद्विपञ्चविधम् ॥३॥) वृत्तिः - ‘इह' प्रवचने कर्मोच्यते इति शेषः । 'नाणदंसणावरण' त्ति ज्ञायतेपरिच्छिद्यते वस्त्वनेनेति ज्ञानम्, ज्ञातिर्वा ज्ञानम्, सामान्यविशेषात्मके वस्तुनि विशेषग्रहणात्मको बोध इत्यर्थः । तथा दृश्यतेऽनेनेति दर्शनम्, दृष्टि, दर्शनम्, सामान्यविशेषात्मके वस्तुनि सामान्यग्रहणात्मको बोधः । आवियते-आच्छाद्यतेऽनेनेत्यावरणम्, यद्वा आवृणोतिआच्छादयति रम्यादिभ्यः कर्तरि (सि० ५-३-१२६) अनटि प्रत्यये आवरणं-मिथ्यात्वादिसचिवजीवव्यापाराहृतकर्मवर्गणान्तःपाती विशिष्टपुद्गलसमूहः । ततो ज्ञानं च दर्शनं च ज्ञानदर्शने तयोरावरणं ज्ञानदर्शनावरणं ज्ञानावरणं दर्शनावरणं चेत्यर्थः । तथा वेद्यतेसुखदुःखरूपतयाऽनुभूयते यत् तद् वेद्यम्, य एच्चातः (सि० ५-१-२८) इति यप्रत्यये वेदनीयम् । यद्यपि सर्वं कर्म वेद्यते तथापि पङ्कजादिशब्दवद् वेद्यशब्दस्य रूढिविषयत्वात् सातासातरूपमेव कर्म वेद्यमित्युच्यते न शेषम् । तथा मोहयति-जानानमपि प्राणिनं सदसद्विवेकविकलं करोतीति मोहः, लिहादित्वादच्प्रत्ययः, मोहनीयमित्यर्थः । तथा एतिगच्छत्यनेन गत्यन्तरमित्यायुः, यद्वा एति-आगच्छति प्रतिबन्धकतां स्वकृतकर्मावाप्तनरकादिदुर्गनिर्गन्तुमनसोऽपि जन्तोरित्यायुः, उभयत्रापि औणादिको णुस्प्रत्ययः, यद्वा आयाति-भवाद् भवान्तरं सङ्क्रामतां जन्तूनां निश्चयेनोदयमागच्छति पृषोदरादयः (सि० ३-२-१५५) इत्यायुःशब्दसिद्धिः । यद्यपि च सर्वं कर्म उदयमायाति तथाप्यस्त्यायुषो विशेषः, यतः शेषं कर्म बद्धं सत् किञ्चित्तस्मिन्नेव भवे उदयमायाति, किञ्चित्तु प्रदेशोदयभुक्तं जन्मान्तरेऽपि स्वविपाकत उदयं नायात्येव इत्युभयथाऽपि व्यभिचारः आयुषि त्वयं नास्ति, बद्धस्य तस्मिन्नेव भवेऽवेदनात्, जन्मान्तरसङ्क्रान्तौ तु स्वविपाकतोऽवश्यं वेदनादिति विशिष्टस्यैवोदयागमनस्य विवक्षितत्वात् तस्य चायुष्येव सद्भावात् तस्यैवैतन्नाम । अथवा आयान्त्युपभोगाय तस्मिन्नुदिते सति तद्भवप्रायोग्याणि सर्वाण्यपि शेषकर्माणीत्यायुः । तथा नामयति-गतिजातिप्रभृतिपर्यायानुभवनं प्रति प्रवणयति जीवमिति नाम । तथा 'गुङ् शब्दे' गूयते-शब्द्यत उच्चावचैः शब्दैरात्मा यस्मात् तद् गोत्रम् । ततो ज्ञानदर्शनावरणं च वेद्यं च मोहश्चायुश्च नाम च गोत्रं च ज्ञानदर्शनावरणवेद्यमोहायुर्नामगोत्राणि । तथा विशेषण हन्यन्ते-दानादिलब्धयो विनाश्यन्तेऽनेनेति 'स्थास्नायुधिव्याधिहनिभ्यः कः' इति कप्रत्यये विघ्नम् अन्तरायम् । चः समुच्चये । 'पणनवदुअट्ठवीस' इत्यादि । अत्र द्वन्द्वगर्भो बहुव्रीहिसमासः । भावार्थः पुनरयम्-पञ्चविधं ज्ञानावरणम्, नवविधं दर्शनावरणम्, द्विविधं
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy