SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ दशविधा रुचिः उपदेशरुचिमाह - एए चेव उ भावे, उवइट्ठे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइत्ति नायव्वो ॥२८ / १९ ॥ (छाया - एतानेव तु भावान्, उपदिष्टान् यः परेण श्रद्दधाति । छद्मस्थेन जिनेन वा, उपदेशरुचिरिति ज्ञातव्यः ॥२८/१९॥) वृत्ति: - एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् तुः पूरणे उपदिष्टान् यः परेणान्येन श्रद्दधाति कीदृशेन परेणेत्याह - छद्मस्थेनानुत्पन्नकेवलज्ञानेन जिनेन वा सञ्जातकेवलेन, स उपदेशरुचिरिति ज्ञातव्यः ॥२८/१९॥ अथ आज्ञारुचिमाह - रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । आणा रोअंतो, सो खलु आणारुई नाम ॥२८/२०॥ (छाया - रागो द्वेषो मोहो, अज्ञानं यस्य अपगतं भवति । आज्ञया रोचमानः, स खलु आज्ञारुचिः नाम ॥२८/२०|) ५६९ वृत्तिः - रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भवाद्देशत इति गम्यते, एतदपगमाच्च 'आणाए 'त्ति आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वापि कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः ॥२८/२०॥ सूत्ररुचिमाह - जो सुत्तमहिज्जतो, सुरण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइत्ति नायव्वो ॥२८/२१॥ (छाया- यः सूत्रमधीयानः, सूत्रेण अवगाहते तु सम्यक्त्वम् । अङ्गेन बाह्येन वा, स सूत्ररुचिरिति ज्ञातव्यः ॥२८/२१॥ वृत्ति: - यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पूर्तौ सम्यक्त्वं, अङ्गेनाचारादिना बाह्येन चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ॥ २८/२१॥
SR No.022276
Book TitleGurugun Shattrinshtshatrinshika Kulak Part 02
Original Sutra AuthorN/A
AuthorRatnabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year2014
Total Pages410
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy