________________
अकल्पषट्कम्
५४९ नगिणस्स वावि मुंडस्स, दीहरोमनहसिणो ।
मेहुणा उवसंतस्स, किं विभूसाइ कारिअं? ॥६/६४॥ (छाया- नग्नस्य वापि मुण्डस्य, दीर्घरोमनखवतः ।
___मैथुनादुपशान्तस्य, किं विभूषया कार्यम् ? ॥६/६४॥)
वृत्तिः - उक्तोऽस्नानविधिः, तदभिधानात्सप्तदशस्थानं, साम्प्रतमष्टादशं शोभावर्जनास्थानमुच्यते - शोभायां नास्ति दोषः 'अलङ्कृतश्चापि चरेद्धर्म'मित्यादिवचनाद् (इति) पराभिप्रायमाशङ्क्याह - 'नगिणस्स'त्ति सूत्रं, नग्नस्य वापि कुचेलवतोऽप्युपचारनग्नस्य निरुपचरितस्य नग्नस्य वा जिनकल्पिकस्येति सामान्यमेव सूत्रं मुण्डस्य द्रव्यभावाभ्यां दीर्घरोमनखवतः दीर्घरोमवतः कक्षादिषु दीर्घनखवतो हस्तादौ जिनकल्पिकस्य, इतरस्य तु प्रमाणयुक्ता एव नखा भवन्ति यथाऽन्यसाधूनां शरीरेषु तमस्यपि न लगन्ति । मैथुनाद् उपशान्तस्य उपरतस्य, किं विभूषया राढया कार्यं ?, न किञ्चिदिति सूत्रार्थः ॥६/६४॥'
गुरुरेतदकल्पादिषट्कं वर्जयति । एवं षट्त्रिंशद्गुणरश्मिमान् गुरुरज्ञानान्धकारं नाशयतु ॥१३॥
इति द्वादशी षट्त्रिशिका सम्पूर्णा ।
प्राणान् दत्त्वापि रक्षन्ति सात्त्विकाः शरणागतम् । वज्रायुधस्तुलां श्रित्वा श्येनात् पारापतं पपौ ॥
સાત્વિક જીવો પ્રાણ આપીને પણ શરણે આવેલાનું રક્ષણ કરે છે. વજાયુધરાજાએ ત્રાજવામાં બેસીને બાજ થકી કબુતરનું રક્ષણ કર્યું. ऋद्धावपि विचारेण प्रवर्तन्ते विचक्षणाः । राज्ञीत्वेऽपि गतोत्सेकं न चित्रकरदारिका ॥
બુદ્ધિશાળી મનુષ્યો ઋદ્ધિમાં પણ વિચારીને પ્રવૃત્તિ કરે છે. ચિત્રકારની દીકરી રાણી બનવા છતાં પણ અભિમાની ન થઈ. अपराध्यपि शुद्धात्मा स्वं निन्दन् स्यादनिन्दितः । असिध्यद् गुणसेनात्मा मुनेर्हेतुरपि क्रुधः ॥
અપરાધી પણ જો પોતાની નિંદા કરે તો નહીં નિંદાયેલો તે શુદ્ધ થાય છે. મુનિના ગુસ્સાનું કારણ બનવા છતાં પણ ગુણસનરાજાના આત્માએ પોતાની નિંદા કરી તો સિદ્ધ थाय.
+