________________
४७६
[कर्णिकासमन्विता उपदेशमाला । गाथा-५३२-५३६ ] धर्मार्थकाममोक्षेषु चतुर्वर्गाभिधेयेषु मिश्रेषूपदिश्यमानेषु यस्य प्राणिनो भावश्चित्ताभिप्रायो यस्मिन् यस्मिन् रमते वीप्सा सर्वरसात्मकत्वमाह, तस्य वैराग्यैकान्तरसं विरक्त्येकनिर्यासं नेदं प्रकरणं सर्वं सकलमपि सुखयति आह्लादयति, किन्तु वैमुख्यमेवाऽऽतनोतीति ॥५३२॥ किञ्च
संजमतवालसाणं, वेरग्गकहा न होइ कण्णसुहा ।
संविग्गपक्खियाणं, होज्ज व केसिंचि नाणीणं ॥५३३॥ संयमतपोऽलसानां संयमे तपसि चानुद्यमानां गुरुकर्मणां वैराग्यकथा प्रस्तुतप्रकरणरूपा न भवति कर्णसुखा श्रुतिसुखेन मानसानन्दहेतुर्न स्यादित्यर्थः । संविग्नपाक्षिकाणां प्रतिपादितचराणां स्वयं संयमतपोऽलसानामपि भवेद्वा वैराग्यकथा इयं कर्णसुखा केषाञ्चित् ज्ञानिनां संयमानुरागनिर्मलज्ञानानामिति
यावदिति ॥५३३॥ 10 तथा मोहमहोरगग्रस्तानां जन्तूनां साध्यासाध्यविवेचकत्वेन संग्रहपरिच्छेदवेदनसामर्थ्यमप्यस्य प्रकरणस्येति व्याचष्टे
सोऊण पगरणमिणं, धम्मे जाओ न उज्जमो जस्स ।
न य जणियं वेरग्गं, जाणिज्ज अणंतसंसारी ॥५३४॥
श्रुत्वा प्रकरणमिदमुपदेशमालाख्यं धर्मे जिनोक्ते जातो नोद्यमो विशेषाभियोगो यस्य जन्तोन च 15 जनितम् उत्पादितं श्रूयमाणेनाऽनेन वैराग्यं विषयवैमुख्यं यस्येति वर्त्तते, तं जानीयास्त्वं यदुताऽयमनन्तसंसारीति कालदष्टवदसाध्य एवेत्यर्थः ॥५३४॥ यत आह
कम्माण सुबहुयाणुवसमेण उवगच्छई इमं सम्मं ।
कम्ममलचिक्कणाणं, वच्चइ पासेण भण्णंतं ॥५३५॥
कर्मणां मिथ्यात्वादीनां सुबहूनां प्रभूतानामुपशमेन उपलक्षणत्वेन उदीर्णानां क्षयेण, उदयावलिकाम20 प्राप्तानाम् उपशमेन, स्वकार्यकरणाशक्तिलक्षणेन सता अल्पशेषकर्मणामेव प्राणिनामुपगच्छति सद्बोधं जनयति इदं प्रस्तुतप्रकरणं सम्यग् अविपरीतस्थित्या । व्यतिरेकमाह-कर्ममलचिक्कणानां मिथ्यात्वादिपङ्कदिग्धानां जीवानां व्रजति पार्वेण भण्यमानं नान्तः प्रविशति उपरि प्लवते इत्यर्थः ॥५३५।। अथास्य प्रकरणस्याध्ययनफलमाह
उवएसमालमेयं, जो पढइ सुणइ कुणइ वा हियए ।
सो जाणइ अप्पहियं, नाऊण सुहं समायरइ ॥५३६॥ . उपदेशमालामेतां यो धन्यः पठति सूत्रतः शृणोत्यर्थतः करोति वा हृदये प्रतिक्षणं सूत्रार्थोभयभावनया स जानात्यात्महितम् इहलोकपरलोकयोः स्वपथ्यम् , तच्च ज्ञात्वा सुखमकृच्छ्रेणैव समाचरति अनुतिष्ठतीति ॥५३६॥
25
१. नुद्यतानां - A, H। २. सव्वं - C, D, K, KH, LI टि. 1. 'भूतपूर्वे प्चरट्' इत्यनेन चरप्रत्ययः ।