SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४०२ [कर्णिकासमन्विता उपदेशमाला । गाथा-२७३-२७७] जह मूलताणए पंडुम्मि दुव्वन्नरागवण्णेहिं । बीभच्छा पडसोहा, इय सम्मत्तं पमाएहिं ॥२७३॥ यथा मूलतानके प्रथमसूत्ररचनारूपे पाण्डुरे धवले दुर्वर्णरागवणैविच्छायरागरूपैः पश्चाद्वानकैरिति शेषः । बीभत्सा विरूपा पटशोभा स्यात् इति एवं सम्यक्त्वं प्रमादैः कषायादिभिर्मूले लाभकाले शुद्धमपि 5 पश्चान्मलिनीभवतीति ॥२७३॥ वैमानिकायुर्बन्धहेतौ च सम्यक्त्वे प्रमादवान् गाढमप्रेक्षापूर्वकारी, बहोः स्वल्पेन हारणादित्याह नरएसु सुरवरेसु य, जो बंधइ सागरोवमं एक्कं । पलिओवमाणिं बंधइ, कोडिसहस्साणि दिवसेणं ॥२७४॥ सम्यक्त्वरहित-सहितयोः क्रमेण पाप-पुण्यकारिणोर्मध्ये नरकेषु सुरवरेषु च गतिद्वयेऽपि, यो बध्नाति 10 सागरोपमं पल्योपमदशकोटीकोटिरूपमागमप्रतीतमेकं स पल्योपमानि बध्नाति कोटिसहस्राणि दिवसेनेति । तथा च पल्योपमदशकोटीकोटिरूपस्य सागरोपमस्य एककस्याऽग्रे पञ्चदशशून्यरूपस्याङ्कस्य पुरुषायुषदिवसाङ्केन षट्त्रिंशद्दिनसहस्राङ्के भागे हते लब्धानि पल्योपमानि द्वौ कोटिसहस्रौ सप्तकोटीशतानि सप्तसप्ततिकोट्यः सप्तसप्ततिर्लक्षाः सप्तसप्ततिसहस्राः सप्तशतानि सप्तसप्तत्यधिकानीति । २७७७७७७७७७७ ॥२७४॥ अथाल्पशुभबन्धकमुद्दिशति ___ पलिओवमसंखिज्जं, भागं जो बंधई सुरगणेसु । दिवसे दिवसे बंधइ, स वासकोडी असंखेज्जा ॥२७५॥ पल्योपमसङ्ख्येयभागम् अनुस्वारस्याऽलाक्षणिकत्वात्, यो बध्नाति सुरगणेषु तात्स्थ्यात् त्रिदिवेषु, दिवसे दिवसे प्रतिदिनं बध्नाति स वर्षकोटीरसङ्ख्येयास्तदात्मकत्वात् तस्येति ॥२५॥ अशुभबन्धकमतिदिशति एस कमो नरएसु वि, बुहेण नाऊण नाम एयं पि । धम्मम्मि कह पमाओ, निमेसमित्तं पि कायव्वो ? ॥२७६॥ एषोऽनन्तरोक्तः क्रमो नरकेष्वपि यदुत पल्योपमसङ्खयेयभागं बध्नन् प्रतिदिनमसङ्ख्येया वर्षकोटीर्बध्नाति । इदं च ज्ञात्वा बुधेन विदुषा नामेति प्रसिद्धम् एतदप्यनन्तरोक्तम्, धर्मे दुर्गतिरोधके सद्गतिदायके च कथं प्रमादो निमेषमात्रमपि अल्पकालमपि कर्त्तव्यः अपि तु नैवैतद् बुध्यत इति भावः ॥२७६।। अथ प्रलोभनाय देवलोकगुणानाह दिव्वालंकारविभूसणाइं, रयणुज्जलाणि य घराई । रूवं भोगसमुदओ, सुरलोगसमो कओ इहयं ॥२७७॥ दिव्यालङ्कारविभूषणानि अलङ्काराः-सिंहासन-च्छत्र-चामरादयः, विभूषणानि-मुकुटादीनि, दिव्यानि सर्वोत्तमानि स्युः । रत्नोज्ज्वलानि गृहाणि, रूपं वपुःसौन्दर्यम्, भोगसमुदयो निरतिशय30 शब्दादिसमृद्धिः, सुरलोकसमः कुतोऽस्मिन्मर्त्यलोके नैवेत्यर्थः ॥२७७॥ किञ्च 15 20
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy