SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ [कर्णिकासमन्विता उपदेशमाला । गाथा-१५०-१५१] २७१ दृगुत्सङ्गप्रसङ्गेन तमङ्गीकृतमात्मना । आलिलिङ्ग च सर्वाङ्गमियं चङ्गमनङ्गवत् ॥१०८।। भावज्ञोऽथाऽवदन्नन्दः पुत्रि ! यत्र रुचिस्तव । व्रज तत्र प्रशस्यं ते क्षत्रकन्याः स्वयंवराः ॥१०९॥ अथ नन्दरथं मुक्त्वा चन्द्रगुप्तरथे रयात् । तस्यां समधिरोहन्त्यां भग्नाश्चक्रे नवाऽऽरकाः ॥११०॥ अमङ्गलकरी केयमेतीत्येतन्निषेधकृत् । चन्द्रश्चणिभुवाऽभाषि मा मैनां वत्स ! वारय ॥१११॥ आचष्टे नवचक्राऽऽरभङ्गमङ्गलभाषया । इयं नव भवद्वंश्यनरानिह नराधिपान् ॥११२॥ श्रियेव मूर्तया साकं तया कंसारिवत्ततः । क्षीरोदसोदरच्छायं नृपवेश्म विवेश सः ॥११३॥ विभक्तुमनसौ नन्दसम्पदं चन्द्रपर्वतौ । सुरक्षितां सुरूपाङ्गी कन्यामेकामपश्यताम् ॥११४॥ कस्मैचन द्विषे दातुं विषेणाऽऽजन्म सा पुनः । अभ्यासजीर्णजीर्णेनाऽवद्धि नन्देन धीमता ॥११५॥ तदा तदङ्गसङ्गेन मृता भूतलपातिनी । मक्षिकाऽलक्षि काचिद् धीचणेन चणिसूनुना ॥११६॥ विषकन्येति तां मत्वा चणिभूर्धीषणैकभूः । चन्द्रपर्वतकावूचे समं तदनुरागिणौ ॥११७॥ नन्दश्रीसंविभागेऽभूत्तवैका चन्द्र ! कन्यका । द्वितीया पर्वत ! ततस्तवास्तु द्युतिपार्वती ॥११८॥ इत्युक्त्या तत्क्षणादेव पर्वतः प्रीतिपर्वतः । तद्विवाहमहोत्साहमारेभे मारविह्वलः ॥११९॥ तत्पाणिपीडनस्वेदात्सर्वतः पर्वते ततः । नुन्ना यज्ञाग्नितापेन समक्रामन्विषत्विषः ॥१२०॥ संक्रान्ततद्विषाक्रान्तशिथिलाखिलविग्रहः । घूर्णन्नव्यक्तवर्णोक्तिश्चन्द्रं पर्वतकोऽभ्यधात् ॥१२१॥ अये ! कवलितो ज्वालकालकूट इवाकुलः । न वक्तुमपि शक्तोऽस्मि वत्स ! पाहि ह हा प्रिये ! ॥१२२॥ 15 मान्त्रिका मान्त्रिका वैद्या वैद्या इत्यथ भाषिणम् । चाणक्यः चन्द्रगुप्तं भ्रूसंज्ञयैव न्यवारयत् ॥१२३॥ पर्वतः सोऽथ चाणक्यवञ्चितः प्राप पञ्चताम् । एकस्त्ववापदैश्वर्यं मौर्यो नन्दस्य तस्य च ॥१२४।। इति चाणक्य-पर्वतकथानकम् ॥ निजकस्नेहोऽपि परिणामदारुणतया किम्पाकफलमधुपरिणाममनुवदतीत्याह नियया वि निययकज्जे, विसंवयंतंमि हुंति खरफरुसा । जह रामसुभूमकओ, बंभक्खत्तस्स आसि खओ ॥१५१॥ निजका अपि स्वजना अपि, निजककार्ये स्वप्रयोजने विसंवदन्ति विघटमाना भवन्ति । खरपरुषाः खराः कर्मणो निष्ठुराः परुषा वाचा कर्कशाः, यथा रामसुभूमकृतो ब्रह्मक्षत्रस्य अर्च्यत्वात् ब्रह्मणः पूर्वनिपातः, आसीत् क्षयः यथायोग्यं रामकृतः क्षत्रक्षयः, सुभूमकृतस्तु ब्रह्मक्षय इति समासार्थः ॥१५१।। 25 व्यासार्थः कथायामेव । तथाहि [सुभूमकथानकम् ॥] वसन्तपुरभूरग्निर्नाम व्युच्छिन्नवंशकः । दारकः पर्यटन् देशानवापत्तापसाश्रमम् ॥१॥ अग्नि यमः कुलपतिः सुतत्वेन तमग्रहीत् । ततोऽभूद्यमदग्न्याख्यः स तेपेऽचाद्भुतं तपः ॥२॥ जैनशैवमती वैश्वानरधन्वन्तरी सुरौ । स्वस्वधर्मप्रकृष्टत्वं वाग्भिर्व्यवदतां तदा ॥३॥ १. विभक्तु - H, A, B, KH । २. श्रयं - KH, K | ३. भूज्जम - B, A | ४. स्वकर्म - B, A I 20 30
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy