________________
[ कणिकासमन्विता उपदेशमाला । गाथा - ५४]
इत्युक्तः स तया शौरिर्गतो रिष्टपुरं प्रति । जरासन्धादिभूपाढये स्वयंवरणमण्डपे ॥१२०॥ रूपेण त्रिजगच्चित्ताऽऽरोहिणी रोहिणी ततः । स्वयंवरणमाल्येन राजमानाऽऽजगाम सा ॥ १२१ ॥ शृङ्गारितेऽप्यरूपेऽस्मिन् राजकेऽस्याः स्थिता न दृक् । वर्ण्यवर्णेऽपि निर्गन्धे कर्णिकार इवालिनी ॥१२२॥ शौरिरेषोऽन्यवेषोऽथ विस्फूर्जत्तूर्यवादिषु । वादयामास पटहमित्थं पटुभिरक्षरैः ॥ १२३॥
आगच्छ गच्छ मां तन्वि ! नन्वितः किमु वीक्ष्यसे । अस्मिन् त्वदनुरूपोऽहं कृतोत्कण्ठः सुकण्ठि ! यत् ॥ १२४॥5 वादयन्तमिति प्रेक्ष्य शौरिं शूरनिभप्रभम् । रोहिणी रोहदानन्दाऽऽनन्दयद्वरमालया ॥१२५॥ अथ पाटहिके तस्मिन् वृते रुधिरकन्यया । अहसन् सहसा सेर्घ्यं सर्वेऽप्युर्वीशकुञ्जराः ॥१२६॥ ह हा कुलीनताऽमुष्याः कुलीनमवृणोद्यतः । इति वार्त्ता मिथश्चक्रुः पश्यन्तो रुधिरं च तौ ॥१२७॥ अथ तेषु सहासेषु प्राह पाटहिकः क्रुधा । दोर्द्दण्डे यस्य कण्डूतिर्दर्शयेऽस्य कुलीनताम् ॥१२८॥ श्रुत्वा शौरेर्गिरं दावकीलालीलामिमामथ । तद्बधाय जरासन्धः स्वभूपान् समनीनहत् ॥ १२९॥ सन्नद्धनिजसैन्योऽथ रुधिरोऽपि धराधवः । जरासन्धेन युद्धाय क्रुद्धः शौरेः पुरोऽस्फुरत् ॥१३०॥ सारथीभूय शौण्डीरावधिर्दधिमुखाभिधः । खेचरः समस्क्रूरं रथे शौरिमवीविशत् ॥१३१॥ वेगाद्वेगवतीमात्राऽङ्गारवत्याऽप्पितानि तत् । चण्डः कोदण्डतूणानि जगृहे विग्रहाग्रही ॥१३२॥ जरासन्धधराधीशै रुधिरं युधि रंहसा । भग्नं वीक्ष्य गिरा शौरेः खेचरो रथमैरयत् ॥१३३॥ शौरिं स्ववर्ण्यभूमी भृत्कुम्भिकेसरिणं रणे । पश्यन्नूचे जरासन्धः समुद्रविजयं प्रति ॥१३४॥ न पाणविकमात्रोऽयं तदेनं साधय स्वयम् । वनं भञ्जन्निभः केन रक्ष्यः पञ्चाननं विना ॥ १३५ ॥ प्रदोषमेनं निर्जित्य त्वं भवन् रोहिणीधवः । मद्यशः कुमुदं स्मेरं कुरुष्व प्रसरत्करः ॥१३६॥ वृताऽन्यवरनिष्ठाया न धवोऽस्या भवाम्यहम् । जेयोऽसौ नु त्वदादेशादित्युत्तस्थौ समुद्रराट् ॥१३७॥ ततः समुद्रमुन्मुद्रवेलं खेलन्तमाऽऽहवे । अवलोक्य स्म कुर्वन्ति देवाः कल्पान्तविभ्रमम् ॥१३८॥ युयुधाते क्रुधा तेजस्तिरस्कृतदिवाकरौ । शौरी दूरीकृतत्रासावथ प्रथमपश्चिमौ ॥१३९॥ कृतस्य प्रतिकुर्वाणावविशेषतया चिरम् । अयुध्येतामुभौ धीरौ नृणां कृतचमत्कृती ॥१४०॥ समुद्रविजयं सम्यगधिगम्य विनीतधीः । चिक्षेप साक्षरं नम्रं वसुदेवः शरं पुरः ॥१४१॥ पाणौ बाणमथाऽऽदाय समुद्रोऽवाचयल्लिपिम् । तदा च्छ्लेन यातस्त्वां वसुदेवो नमाम्यहम् ॥१४२॥ वत्सलो वत्स वत्सेति समुद्रोऽपि वदन्नदः । अभ्यधावद् रथं मुक्त्वा तं प्रतीन्दुमिवाम्बुधिः ॥१४३॥ प्रीतिमान् वसुदेवोऽपि समुत्तीर्य समुत्सुकः । न्यपतन्पादयोर्दोर्भ्यामुद्धृत्याऽनेन सस्वजे ॥१४४॥
१७३
१. नुकंपोऽहं - P। २. पुर: स्फुरत् - P । ३. चण्डकोद० - B, C |
टि. 1. मनोहरवर्णवान्-वर्ण्यवर्णः तस्मिन् । 2. पाटहिक: - पटहवादकः । 3. दावकीलालीलां अग्निशिखासमम् । 4. [रो रे लुग्.....१।३।४१] हेम० इत्यनेन विसर्गलोपः । 5. पक्षे चन्द्रः । 6. युद्धे । 7. समुद्रविजयः प्रथमशौरिः वसुदेवस्तु पश्चिमः इति द्विवचनम् ।
10
15
20
25