SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ ६. उपदेशमालायाः कर्णिकावृत्तिः अस्माभिः अग्रे दृष्टं यद् गाथाः खलु धर्मदासगणिनाम्, अर्थश्च श्रीसिद्धर्षिवर्याणामेव । अतः प्रस्तुतटीकारचनायां टीकाकाराणां हेतुः स्पष्ट एव । यथा " तेनैतामितिवृत्तसंस्कृतमयीमातन्वतः कर्णिकाम्". : 17 तन्नाम, एतां कर्णिकाम्, कीदृशम् ? इतिवृत्तसंस्कृतमयीम् । प्राकृतकथानकानि तु पूर्वं रचितानि वर्तन्ते एव । संस्कृतकथानकगुम्फनार्थमेव अयं प्रयासः । तथाऽपि केषुचित्स्थलेषु टीकाकारै दत्तं विवरणं पूर्वटीकातः नितान्तं विस्तृतं विशिष्टं च। यथा- १०-११ गाथायाः टीकायां धर्माचार्यस्य गुणसम्पवर्णनम् । कुत्रचित् स्वकीयं चिन्तनमादौ दत्त्वा पश्चाद् वृद्धैः कृता व्याख्या दर्शिता यथा गा० २१३ । टीकायाः श्लोकमानमस्ति - १२२७४ । अस्याः टीकायाः रचनातः प्रागेव धर्माभ्युदयमहाकाव्यस्य रचना जाता । अतः तत्रत्यानि कानिचन कथानकानि अत्र बहुधा समानानि तत एव स्वीकृतानि वर्तन्ते । यथा ऋषभजिनकथा, भरतबाहुबलिकथा, जम्बूस्वामिकथा इत्यादि । 6000 किं कथ्येत अत्रत्यानां कथानकानां विषये ? कविवराणां शैली तावती प्रासादिकी अस्ति यथा कुत्रापि (पुनरपि, कुत्रापि ) वाचकः तृप्तिं नानुभवेत् । मुख्यतया कविवरैः कृतस्य उत्प्रेक्षानुप्रासेत्यलङ्कारद्वयस्य उपयोगो निःसंशयमतुलनीयोऽस्ति । उत्प्रेक्षालङ्कारस्य कानिचन एव उदाहरणानि स्थालीपुलाकन्यायेन अत्र दर्श्यन्ते । यदा नवजातेन वर्धमानप्रभुणा अङ्गुष्ठेन मेरुः कम्पितः तदा कुलपर्वतानां शिखराणि भूमौ पतितानि अत्र कविवराः उत्प्रेक्षन्ते "यत्रेदृक् प्रभुरुत्पन्नः सा न वन्द्या किमद्य भूः ? प्रणिपेतुरितीवास्यां शिरांसि कुलभूभृताम् ॥३०७॥" [महावीरचरिते ] यदा सङ्गमकः कालचक्रं क्षिपति तदा "जिनस्त्वमज्जदाजानु तदा तद्घातपाततः । दुर्गतिस्थानिवोद्धर्तुं प्रस्थानप्रस्थितोद्यमः ॥८९१॥" [महावीरचरिते ] यदा कोशायां लुब्धः सिंहगुफावासी मुनिः चातुर्मास्यां नेपालं प्रति रत्नकम्बलाय गच्छति तदा “नेपालाय चचालायमकालेऽपि द्रुतं ततः । पङ्के मज्जत्पदोऽभ्यस्यन्निवाधोगमनं मुनिः ॥ १५१ ॥ " [ स्थूलभद्रकथानके] अधुना अनुप्रासविषयाणामुदाहरणानामवबोधात् प्राग् एकः अंशः ज्ञातव्यः अस्माभिः यद् काव्ये ते एव अलङ्काराः सहृदयानामिष्टा ये रसस्य पोषकाः स्युः, रसानुभूतौ हान्युत्पादका अलङ्कारा नेष्टाः खलु सहृदयानां, किन्तु ये रसानुभूतौ हानिमनुत्पाद्य चमत्कृतिं जनयन्ति ते अनुप्रासादयः अभिमताः सहृदयानाम् । अत्र प्रस्तुतायां कणिकावृत्तौ अहं निश्चयेन कथयितुं शक्नुयाम् यद् अधुनावधि पठितेषु प्रायः २,००,००० श्लोकमितेषु भिन्नभिन्नेषु काव्येषु सर्वाधिकतया अनुप्रासस्य प्रयोगः दृष्टो मया । तथापि, एकस्मिन्नपि स्थले प्रयुक्तोऽनुप्रासः रसानुभूतौ हानि न जनयति । एषा मन्मतेन सुनिश्चितं विरलतमा सिद्धिः । पुनश्च अत्र उदाहरणोपस्थापनेऽपि अहं भीतिमनुभवामि यद् तेन कविवराणां सिद्धिदर्शनं संकुचितं भविष्यति । यतः प्रायः प्रतितृतीयश्लोकं चित्तहारी अनुप्रासः राजते । अतः कियन्ति उदाहरणानि दद्याम ? तथापि उदाहरणद्वयं प्रदर्श्यते । यदा चण्डकौशिकः प्रभु दाहयितुं सूर्यं दृष्ट्वा स्वीयां दृशं क्षिपति तदा विषाग्निकीलयाऽप्याप्तभानुसाहाय्यलीलया । तयाऽदाहि प्रभोरङ्गं... एतावत्पठित्वा वयं चकिता भवेम यत् किमेतत् ? प्रभोरङ्गं तया दृष्ट्या अदाहि ? अग्रे कविवरा योजयन्ति - कार्मणं, न तु चार्मण् ॥५२५ ॥ [ महावीरचरिते ]
SR No.022274
Book TitleUpdeshmala
Original Sutra AuthorN/A
AuthorKirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2013
Total Pages564
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy