________________
१५२
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-४८] यया ययाऽयमुत्सङ्गे धृतः सा सा ससंमदा । मातेवाहं शिशोरस्य मुदेऽस्मीति व्यचिन्तयत् ॥१२५॥ शय्यातरीभिरेवं स पाल्यमानो न चापलम् । किमप्यसौख्यदं तासु बालतासुलभं व्यधात् ॥१२६॥ संज्ञामाहारनीहारादिषु व्यक्तामयुक्त सः । अभुङ्क्त प्रासुकं जातिस्मृतिस्मृतयतिक्रियः ॥१२७॥ युग्मजैरिव रेमेऽसौ सर्वैर्निर्भरमर्भकैः । तदिष्टक्रीडनेनैकेन्द्रियादिव्यसनं विना ॥१२८॥ सत्क्रियां शिक्षयन् दक्षः सपक्षीकृत्य डिम्भकान् । क्रीडन् धर्मानुरूपं स सुधीः साध्वीरमोदयत् ॥१२९॥ अमुं स्नान-पयःपान-भक्षदानविधानतः । स्पर्द्धया वर्द्धयामासुः शय्यातरपुरन्ध्रयः ॥१३०॥ वज्रं निरूप्य रूपश्रीमालिनं शीलशालिनम् । शय्यातरेभ्योऽयाचिष्ट सुनन्दा मेऽङ्गभूरिति ॥१३१॥ जननीजन्यसम्बन्धं न विद्यो युवयोर्वयम् । गुरोर्यासोऽयमस्मासु तैरित्युक्त्वा न्यषेधि सा ॥१३२॥ अथागाधजलेऽम्भोजमिव लक्ष्म्याऽद्भुतं सुतम् । दुष्प्रापमिष्टप्रापं सा दूरस्थैव तमैक्षत ॥१३३॥ क्वचित् महोपरोधेन धात्रीव तमसौ सुतम् । स्तन्यपानादिभिस्तेषामेव धामन्यपालयत् ॥१३४॥ इतश्च कन्यापूर्णाख्यं विख्यातं तटिनीद्वयम् । आस्तेऽचलपुरोपान्तं महीमण्डलमण्डनम् ॥१३५।। सरितोरेतयोरन्तस्तद्भुवोर्भुजयोरिव । हारलीलां ललुभूतिधवला: केऽपि तापसाः ॥१३६॥ पादुके परिधायैकस्तापसस्तेषु लेपवित् । सलिलेऽप्यतलस्पर्शे तलदध्न इवाचलत् ॥१३७॥
कुतूहलं मुहुः पौरजनस्य जनयन्नयम् । पादुकालेपगुप्ताहिरुत्ततार तरङ्गिणीम् ॥१३८॥ 15 ईदृक्षोऽस्ति नवः कोऽपि प्रभावो दर्शने न वः । स जिनोपासकानेवं जहास प्रतिवासरम् ॥१३९॥
विहारक्रमयोगेन योगसिद्धस्तपोनिधिः । तत्राऽऽर्यशमिताऽऽचार्यस्तदागाद्वज्रमातुलः ॥१४०॥ तस्मै तं मुनिमाख्याय श्राद्धा वृद्धपराभवाः । सतापास्तापसोपज्ञमुपहासमजिज्ञपन् ॥१४१॥ मतिज्ञानेन विज्ञाय श्रुतज्ञाने स्फुरत्यपि । तानुवाचार्यशमिताचार्यः स्वोपासकानथ ॥१४२॥ तापसस्य तपःशक्तिस्तस्य नो काचिदाचिता । किन्तु केनाऽपि लेपेन लिप्तपादः स चित्रकृत् ॥१४३।। अत्रोपदेशमात्रैकसाध्ये निस्तपसामपि । मा विस्मयध्वं विज्ञाने मा श्रद्धत्त च तापसान् ॥१४४॥ न सत्यं प्रत्ययश्चेद्वस्तापसस्तन्निमन्त्र्यताम् । भक्तिच्छलेन प्रक्षाल्यौ तत्पादौ पादुके च ते ॥१४५।। श्रावकैरथ तीर्थेशमतप्रहसनच्छिदे । धर्माय मायामपि तैर्निर्मायाऽऽमन्त्रि तापसः ॥१४६॥ वृतः कौतुकिभिर्लोकैर्भोजनाभ्युदितस्ततः । श्राद्धस्यैकस्य सदनमापपात स तापसः ॥१४७।। अगारद्वारमायान्तं मायाभक्तिभृतस्ततः । उवाच श्रावकः श्रद्धासम्बद्धात्मेव तापसम् ॥१४८॥ प्रक्षालयति यो भक्त्या भगवन् ! भवतः क्रमौ । न श्राम्यतः क्रमौ तस्य संसारारण्यलङ्घने ॥१४९॥ तदहं क्षालयिष्यामि त्वत्पादौ भुक्तिमुक्तिदौ । न कुर्वन्ति हि भक्तस्य भक्तिभङ्गं भवादृशाः ॥१५०॥
१. मातताप - PI टि. 1. तदिष्टक्रीडनेन एकेन्द्रियादिजीवानां व्यसनं पीडां विना स निर्भर रेमे इत्यर्थः ।
25