________________
10
[कर्णिकासमन्विता उपदेशमाला । गाथा-३६-३८]
१३५ निगृह्णीयात्, धणियं अत्यर्थं दुर्वचनोज्ज्वालितान् दुःश्रववाक्योद्दीपितान् कषायान् स मुनिर्यथावस्थितं मोक्षकारणं प्रस्तावान्निष्कषायत्वरूपं तत्त्वं मन्यत इति कृत्वा, निष्कषाय एव स इत्यभिप्रायः ॥३५॥ अथ किं कषायनिग्रहे महान् यत्न इति तद्दोषमाह
कडुयकसायतरूणं, पुष्कं च फलं च दो वि विरसाइं।
पुप्फेण झाइ कुविओ, फलेण पावं समायड् ॥३६॥ कटुकाः संयमसुखभङ्गहेतुत्वात् दुःखदाः ते च कषायाश्च, त एव तरवः, स्वोत्तरप्रकृतिरूपशाखादिमत्त्वात् कटुककषायतरूणां पुष्पं च फलं च द्वे अपि विरसे, संयमजीवितापेक्षया विरुद्धपरिणामे । पुष्पफलस्वरूपं क्रोधमधिकृत्योदाहरति-पुष्पेण हेतुना ध्यायति कुपितस्ततो ध्यात्वा, फलेन हेतुना पापं दुर्वचनभाषणताडनादिकं समाचरति । क्रोधोदाहरणेन च सर्वकषायाणाम् उदयः पुष्पम्, उदयनिमित्तो व्यापारः फलमिति ज्ञातव्यम् ॥३६॥ कषायनिग्रहश्च विषयपरित्यागमूलः, स च कस्यचिदेव सुकरो, न सर्वस्येति दृष्टान्तेनाह
संते वि को वि उज्झइ, को वि असंते वि अहिलसइ भोए।
चयइ परपच्चएण वि, पभवो दट्टण जह जंबुं ॥३७॥ भुज्यन्त इति भोगाः शब्दादयस्तान् सतोऽपि विद्यमानानपि, कोऽपि जम्बूस्वाम्यादिविवेकी उज्झति त्यजति, कोऽपि प्रभवादिरविवेकी असतोऽपि अभिलषति वाञ्छति भोगान् तथा कश्चिदित्यनुवर्त्तते त्यजति 15 परप्रत्ययेनापि किं तदित्याह प्रभवो दृष्ट्वा जम्बुमिति समासार्थः । व्यासार्थस्तु शतोपरि त्रिपञ्चाशत्तमगाथायां 'रूवेण जोव्वणय' इत्यत्राभिधास्यते ॥३७॥ । ननु कथमेवं क्रूरकर्मा प्रभवः प्रतिबुद्ध ? उच्यते-धर्ममाहात्म्यात्, तथा चाह
दीसंति परमघोरा वि, पवरधम्मप्पभावपडिबुद्धा ।
जह सो चिलाइपुत्तो, पडिबुद्धो सुंसुमाणाए ॥३८॥ दृश्यन्ते परमघोरा अपि अतिशयरौद्रा अपि सत्त्वा इति गम्यते, प्रवरधर्मप्रभावप्रतिबुद्धास्तीर्थकरोपदिष्टतया प्रधानधर्मस्य माहात्म्येन मिथ्यात्वनिद्रापगमादवगततत्त्वा उपलभ्यन्त इत्यर्थः । अत्र दृष्टान्तमाह-यथा स चिलातीपुत्रः प्रतिबुद्धः सुंसुमाजाते सुंसुमोदाहरणे इत्यक्षरार्थः ॥३८॥ भावार्थस्तु कथायाम् । तथाहि
[चिलातीपुत्रकथानकम् ॥] क्षितिप्रतिष्ठे शंमन्यो यज्ञदेवः पुरे द्विजः । जिनानामसृजन्निन्दां संसारतरुसारणिम् ॥१॥ शिष्यभावं जितो जेतुर्यास्यतीति प्रतिज्ञया । क्षुल्लकेन स केनाऽपि वादायाऽवादि धीमता ॥२॥ आनीय निग्रहस्थानं क्षुल्लकेन विवादिना । द्विजो विजित्य प्रव्रज्यां ग्राहितः प्राक्प्रतिज्ञया ॥३॥
20
25
१. इत्याह - PI